________________
१३८ स्तुतिश्चतुर्विशतिका
[१५ श्रीधर्मदीप्तिर्यस्याः सा तथा । पुनः कथंभता ? । ' अयाचिता' न विद्यते याचितं यस्याः सा अयाचिता । पुनः कथभूता ! । ' नयाचिता ' नयेन-नीत्या आ-समन्तात् चिता-व्याप्ता ॥ अनुष्टुप्छन्दः । तल्लक्षणं चेदम्
" श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पश्चमम् ।
द्विचतुःपादयोर्हस्व-मेतच्छ्लोकस्य लक्षणम् ॥" ॥ इति श्रीमहामहोपाध्यायभानुचन्द्र० श्रीधर्मनाथस्य स्तुतिवृत्तिः ॥ १५ ॥ सौ० वृ०-केकिस्थेति।प्रज्ञप्तिदेवी वो-युष्माकंलाभान्-वाञ्छितार्थान क्रियादित्यन्वयः। क्रियात्' इति क्रियापदम् । का की ? । 'प्रज्ञप्तिः' । 'क्रियात् ' कुर्यात् । कान् कर्मतापन्नान ? । 'लाभान' बोधिलाभलक्षणान् । केषाम् । 'वः' युष्माकम् । किंविशिष्टा प्रज्ञप्तिः। 'अयाचिता' अप्रार्थिता। पुन: किंविशिष्टा प्रज्ञप्तिः ? केकी-मयूरस्तत्र तिष्ठतीति केकिस्था'। पुनः किंविशिष्टा प्रज्ञप्ति: ? शक्तिः-शस्त्रविशेषः सा करे यस्याः सा 'शक्तिकरा' पुनः किविशिष्टा प्रज्ञाप्तः ? । नूतन-नवानं यदम्भाज-कमलं । कराला-उग्रा दीप्ता भा-कान्तिर्यस्याः सा, अलाभा इत्यप्यर्थः । पनः किंविशिष्टा प्रज्ञप्ति:? । नयैःव्यवहारादिभिरा-समन्तात् चिता-व्याप्ता 'नयाचिता' । इति पदार्थः॥ ___अथ समासः--केकावागस्यास्तीति केकी, केकिनि तिष्ठतीति केकिस्था । शक्तिः करे यस्याः सा शक्तिकरा । लभ्यन्ते प्राप्यन्ते इति लाभास्तान लाभान् । न याचिता अयाचिता । प्रकृष्टा ज्ञप्तिर्यस्याः सा प्रज्ञप्तिः । अम्भसि जायते तदम्भोज, नूतनं च तदम्भोजं च नृतनाम्भोज, नूतनाम्भोज करे यस्याः सा नूतनाम्भोजकरा । नयैः आ-समन्तात् आत्मधिया वा चिता-व्याप्ता नयाचिता । इति चतुर्थवृत्तार्थः॥४॥
श्रीमद्धर्मजिनेन्द्रस्य, स्तुतेरर्थो लिवीकृतः।
सौभाग्यहागराख्येण, सूरिणा सौख्यकारिणा ॥१॥
॥ इति पञ्चदशमधर्मजिनस्य स्तुतेरर्थः समाप्तः ॥ १५ । । । ६०॥ दे० व्या०-केकिस्थेति । प्रज्ञप्तिनाम्नीदेवी वो-युष्माकं सामान्-वाञ्छितार्थान् क्रियात्-कुर्यात् इत्यन्वयः। 'डुकृञ् करणे' धातुः । 'क्रियात् ' इति क्रियापदम् । का कर्वी प्रज्ञप्तिः । कान् कर्मतापन्नान् ।। लाभान् । केषाम् ।। वः । किंविशिष्टा प्रज्ञप्तिः ।। 'अयाचिता' न याचितं यस्याः सा तथा, सर्वेषां प्रार्थितार्थपूरकत्वेन स्वस्या अयाचकत्वात् । पुनः किंविशिष्टा?। 'शक्तिकरा, शक्तिः-शस्त्रविशेषः करे-हस्ते यस्याः सा तथा। पुनः किंविशिष्टा?। 'केकिस्था केकिनि-मयूरे तिष्ठतीति केकिस्था, केकिवाहनत्वात् । पुनः किंविशिष्टा ?। 'नूतनाम्भोजकरालाभा' नूतनं-प्रत्यग्रं यद् अम्भोज-कमलं तद्वत् कराला-उत्कटा भा-कान्तिः यस्याः सा तथा । पुनः किंविशिष्टा ?। 'नयाचिता' नयो-नीतिपन्थाः तेन आ-समन्तात् चिता-व्याप्ता । इति तुरीयवृत्तार्थः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org