________________
जिनलतः)
स्तुतिश्चविंशतिका भीपज्ञातिदेव्याः स्तुतिः
केकिस्था वः क्रियाच्छक्ति-करा लाभानयाचिता । प्रज्ञप्तिनूतनाम्भोज-करालाभा नयाचिता ॥ ४ ॥
ज. वि०-केकिस्थेति । प्रज्ञप्तिः-प्रज्ञप्तिनाम्नी देवी क:-युष्माकं लाभान-अभीष्टार्थागमान् क्रिया-विधेयात् इति क्रियाकारकसंयोगः । अत्र ‘क्रियात् । इति क्रियापदम् । का की ?
प्राप्तिः । कान् कर्मतापन्नान् ? 'लाभान् ।। केषाम् ? 'वः । प्रज्ञप्तिः कथंभूता ? 'केकिस्था' मयूरे स्थिता, मयूरवाहनेत्यर्थः । पुनः कथं० १ 'शक्तिकरा' शक्ति:-प्रहरणविशेषः करे-हस्ते यस्याः सा तथा । यद्वा शक्तौ करो यस्याः सा तथा ! पुनः कथं० १ 'अयाचिता' अप्रार्थिता, कस्यापि पुरतो याचते नेत्यर्थः । पुन: कथं०? 'नूतनाम्भोजकरालाभा' नूतनं-नवीनं यदम्भोजकमलं तद्वत् कराला-अत्युल्वणा भा-दीप्तिर्यस्याः सा तथा । पुनः कथं० १ 'नयाचिता' नयेन-नीत्या आ-समन्तात् चिता-व्याप्ता ।।
अथ समास:--केकिनि तिष्ठतीति केकिस्था ' तत्पुरुषः' । शक्तिः करे यस्याः सा शक्तिकरा - बहुव्रीहिः । यद्वा शक्तों करो यस्याः सा शक्तिकरा ' बहुव्रीहिः । न विद्यते याचितं यस्याः सा अयाचिता 'बहुव्रीहिः ।। नूननं च तदम्भोजं च नूतनाम्भोज कर्मधारया। नूतनाम्भोजवत् कराला नूत० ' तत्पुरुषः। । नूतनाम्भोजकराला आमा यस्याः सा नूत० बहुव्रीहिः। नयेनाचिता नयाचिता ' तत्पुरुषः ।। इति काव्याः ॥४॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीधर्मनाम्नो जिनस्य स्तुतेाख्या ॥ १५ ॥
सि० ४.---केकिस्थेति । प्रज्ञप्ति:-प्रज्ञप्तिनाम्नी देवी वो-युष्माकं लामान्-वाञ्छितार्थान् क्रियात्विधेयात् इत्यर्थः । * डुकृञ् करणे ' धातोः आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'यादादौ । (सा० सू० ८१४ ) इति रिङादेशः । तथाच ' क्रियात् ' इति सिद्धम् । अत्र ' क्रियात् ' इति क्रियापदम् । का कर्ची ? । 'प्रज्ञप्मि:' प्रकृष्टा ज्ञामि:-बुद्धिरस्याः (सा) प्रज्ञप्तिः, क्तिच । न च प्रज्ञमीति ङयन्ते नदीवदिति ज्ञेयम् । कथंभूता प्रज्ञप्तिः ।। 'केकिस्था ' केकिनि-मयूरे तिष्ठतीति केकिस्था, मयूरवाहिनीत्यर्थः । तस्यास्तद्वाहनत्वादिति भावः । पुनः कथंभृता ।। शक्तिकरा' शक्तिः-प्रहरणविशेषः करे-हस्ते यस्याः सा तथा । “ शक्तिरस्त्रान्तरे गौर्या-मुत्साहादी बले स्त्रियाम् ” इति मेदिनी । पुनः कथमता ! । ' नूतनाम्भोनकरालामा ' नूतनं-नवीनं यदम्भोज-कमलं तद्वत् कराला-अत्युल्वणा मा
'राऽलाभा' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org