________________
१६६
स्तुतिचतुर्विंशतिका
[ १५ श्रीधर्म
,
अक्षतारय: ' कर्मधारयः ' । अक्षतारय एवं कं यस्मिन् सोऽक्षतारिकः 'बहुव्रीहिः ' । तस्मिन अक्षतारिके । अम्भसां निधिः अम्भोनिधिः ' तत्पुरुषः ' । [ अम्भोनिधिरिवाम्भोनिधिः । ] संसारश्वासावम्भोनिधिश्व संसाराम्भोनिधिः 'कर्मधारयः । तस्मिन् संसा० ॥ इति काव्यार्थः ॥ ३ ॥
सि० वृ०
भारतीति । जिनेन्द्राणां भारति । तीर्थकृतां वाणि! हे तारके निर्वाहिके ! त्वं अस्मान् -नः अवनौ-भुवि द्राक् शीघ्रं रक्ष - त्रायस्वेत्यर्थः । ' रक्ष रक्षणे ' धातोः ' आशीःप्रेरणयोः ' (सा० सू० ७०१ ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हि: । ' अप्०' (सा० सू० ६९१ ), ‘अतः’ (सा० सू० ७०१ ) इति हेलुक् । अत्र ' रक्ष' इति क्रियापदम् । का कर्त्री ? । त्वम् । कान् कर्मतापन्नान् ? । अस्मान् । कथम् ? | द्राक् । कस्याम् ? | अवनौ । कथंभूता त्वम् । 'नवनौः ' नवा – प्रत्यमा चासौ नौश्च नवनौः इति ' कर्मधारयः ' 1 “ स्त्रियां नौस्तरणिस्तरिः " इत्यमरः ( श्लो० ४८७ ) । कस्मिन् ? । ' संसाराम्मोनिधौ ' संसरणं संसारः स एव अम्मो निघीयतेऽस्मिन् इत्यम्भोनिधिः- समुद्रस्तस्मिन् । 'कर्मण्यधिकरणे च ' ( पा० अ० २, पा ३, सू० ९३ ) इति किः । कथंभूते संसाराम्मोनिधौ ! | ' अक्षतारिके ' अक्षता - अनुपहता ये अरयः - शत्रवः त एव कं- जलं यस्मिन् स तस्मिन् ॥
'
3
सौ० वृ० -- भारतीति । हे भारति ! -जिनेन्द्राणां वाणि! हे तारिके ! त्वं द्राक् शीघ्रं अवनौ-पृथिव्यां अस्मान् रक्ष इत्यन्वयः । ' रक्ष' इति क्रियापदम् । का कर्त्री ? ' त्वम्' । ' रक्ष ' अव । कान् कर्मतापज्ञान ।' अस्मान् । कथम् । 'द्राक' शीघ्रम् । कस्थाम ? | अवनौ' पृथिव्याम् । किंविशिष्टा त्वम् । नया-नूतना नौरिव नौः-तरणिः 'नवनौः । कस्मिन् ? | संसारः - चतुर्गतिभ्रमणलक्षणः स एवाम्मोनिधिः- समुद्रस्तस्मिन् ( संसाराम्भोनिधौ । कथंभूते संसा० ? अक्षता - अनुपहता अरयः - शत्रवस्त एव कं- जलं यस्मिन् सः ) अक्षतारिकस्तस्मिन् अक्षतारिके । यद्वा नवनौरिति भारत्या आमन्त्रणम् । इति पदार्थः ॥
अथ समासः -- जिनानां इन्द्रा जिनेन्द्राः, तेषां जिनेन्द्राणाम् । नवा नौरिव नौर्नवनौः । न क्षता अक्षताः, अक्षताञ्च ते अरयश्च अक्षतारयः, अक्षतारय एव कं-जलं यस्मिन् सः अक्षतारिकः, तस्मिन् अक्षतारिके । संसरणं संसारः, अम्मांसि निधीयन्ते अस्मिन्निति अम्भोनिधिः, संसार एव अम्भोनिधिः संसाराम्भोनिधिः, तस्मिन् संसाराम्भोनिधौ । तारा एव तारिका तस्याः सं० हे तारिके !-निर्मले ! त्वं प्रधाना (?) । इति तृतीयवृत्तार्थः ॥ ३ ॥
"
दे० व्या०--भारतीति । हे जिनेन्द्राणां भारति ! त्वं अवनी - पृथिव्यां अस्मान् अव- रक्ष- पालयेत्यन्वयः । रक्ष रक्षणे ' धातुः । 'रक्ष' इति क्रियापदम् । का कर्त्री ? | त्वम् ? | कानू कर्मतापन्नान् ? । अस्मान् । कस्याम् ? | अवनी । कथम् ! | द्राक् शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् । किंविशिष्टा त्वम् ? । 'नवनौ: ' नवानूतना नौ:- नौका | भारत्याः संबोधनपदं वा । कस्मिन् ! | ' संसाराम्भोनिधौ ' । ( किंविशिष्टे ? | ) ' अक्षतारिके' अक्षता - अनुपहता ये अरयः - शत्रवः त एव कं-जलं यत्र स तस्मिन् । “ कं शिरो जलमाख्यातम् " इत्यनेकार्थः । ' तारिके ।' इति । तारयतीति तारिका, तस्याः सम्बोधनं हे तारिके । इदमपि भारत्या एव सम्बोधनपदम् । इति तृतीयवृत्तार्थः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org