________________
जिमस्तुतयः
स्तुतिचतुर्विंशतिका
का कर्ता?।'यो जिनौघः', 'ततान' । विस्तारयामास।कं कर्मतापन्नम् । 'ध्वान्तान्तं ' ध्वान्तअज्ञामतमः तस्य अन्तो-विनाशस्तं ध्वान्तान्तम् । कया । भा-प्रभा तस्या मण्डलम् यद्वा भामण्डलंसुरकुतप्रारिहार्यरूपं तस्य त्विद-कान्तिः तया 'भामण्डलत्विषा'। किंविशिष्टया भामण्डत्विषा ।। लसमानया' देदीप्यमानया। पुनः किं० भामण्डलात्विषा? । ततो-विस्तीर्णो यः अनल:-वह्निः तत्सहशया 'ततानलसमानया । यद्वा ततो-विस्तृतः अत एव अनलसः-अमदःमानः-प्रमाण यस्याः सा ततानलसमाना तया ततानलसमानया । इति पदार्थः ॥
अथ समासः-जिनानां ओघः जिनौधः। ध्वान्तस्य अन्तो ध्वान्तान्तः, तं ध्वान्तान्तम् । लसतेदीप्यते इति लसमाना, तया लसानया । भाया मण्डलं भामण्डलं, भामण्डलस्य त्विट् भामण्डलत्विट्, तया भामण्डलत्विषा । ततश्चासौ अनलश्च ततानलः, ततानलवत्( लेन) समाना ततानलसमाना, तया ततानलसमानया । न अलसः अनलसः, अनलसश्चासौ मानश्च अनलसमानः, ततोऽनलसमानो यस्याः सा ततानलसमाना, तया ततानलसमानया । इति द्वितीयवृत्तार्थः ॥२॥
दे० व्या०-जीयादिति । स 'जिनौघः' जिनानां ओघः-समूहः जीयात्-जयतात् इत्यन्वयः। 'जि जये धातुः । 'जीयात्' इति क्रियापदम् । कः कर्ता ? । जिनौघः । किंविशिष्टो जिनौघ: ? 'सः' यत्तदोनित्याभिसम्बन्धाद् यो जिनौघः भामण्डलविषा ध्वान्तान्तं ततान इति सम्बन्धः। 'तनु विस्तारे' धातुः। 'ततान' इति क्रियापदम् । कः कर्ता? । यः । कं कर्मतापन्नम् ? । 'ध्वान्तान्तं' ध्वान्तं-अज्ञानं अन्धकारं वा तस्य अन्तं-नाशम् । “ध्वान्तं भूच्छायान्धकारम्" इत्यभिधानाचन्तामणिः (का०२, श्लो०६०)।कया। 'भामण्डलत्विषा(किंविशिष्टया !)। लसमानया-विलसन्त्या। पुनः किंविशिष्टया ? । 'ततानलसमानया' तसो-विस्तारं प्राप्तः यः अनल:-वह्निः तेन समानया-सदृशया । इति द्वितीयवृत्तार्थः ॥२॥
भारत्याः संकीर्तना
भारति ! द्राग् जिनेन्द्राणां, नवनौरक्षतारिके । संसाराम्भोनिधावस्मा-नवनौ रक्ष तारिके ! ॥ ३ ॥
-अनु०
ज० वि०-भारतीति । हे जिनेन्द्राणां भारति !-तीर्थकृतां वाणि! हे तारिके-निर्वाहिके ! त्वं अस्मान्-नः अवनौ-भुवि द्राक्-शीघ्रं रक्ष-त्रायस्व इति क्रियाकारकसम्बन्धः । अत्र 'रक्ष' इति क्रियापदम् । का की ? 'त्वम्' । कान् कर्मतापन्नान् ? 'अस्मान् । कथम् ? 'द्राक। कस्याम् ? ' अवनौं। त्वं कथंभूता ? 'नवनौः' नवा-प्रत्यग्रा नौः-नाविका । कस्मिन् ? 'संसाराम्भोधौ । भवसागरे । कथंभूते संसाराम्भोनिधौ ? ' अक्षतारिके' अक्षता-अनुपहता ये अरय:-शत्रयः तद्रूपं कं-जलं यस्मिन् स तथा तस्मिन् । संसारो ह्यम्भोनिधेरुपमया वर्णितः, तत्र तु जलं भवति तेनात्र अक्षतारिरूपं जलमस्तीति तात्पर्यम् । इदं विशेषणं सम्बोधनत्वेन व्याख्येयम् ।।
अथ समास:-जिनानां जिनेषु वा इन्द्रा जिनेन्द्राः 'तत्पुरुषः । तेषां जिनेन्द्राणाम् । नवा चासौ नौश्च नवनौः 'कर्मधारयः।। नक्षता अक्षताः 'तत्पुरुषः ।। अक्षताश्च तेश्यश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org