________________
१६४ स्तुतिश्चतुर्विशतिका
[१५ श्रीधर्मजिनसमूहस्य स्तुतिः
जीयाज्जिनौघो ध्वान्तान्तं, ततान लसमानया। भामण्डलत्विषा यः स, ततानलसमानया ॥२॥
-अनु० ज० वि०-जीयादिति । स जिनौघो-जिनसमूहः जीयात्-जयतात् इति क्रियाकारकसण्टङ्कः । अत्र 'जीयात् । इति क्रियापदम् । कः कर्ता ? ' जिनौषः । स इति तच्छन्दसम्बन्धाद् यच्छब्दघटनामाह-यो जिनौघो भामण्डलत्विषा-भामण्डलकान्त्याध्वान्तान्तं-तमोविनाशं तसान-विस्तारितवान् । अत्रापि ततान । इति क्रियापदम् । के कर्मतापन्नम् ? 'ध्वान्तान्तम् । कया ? ' भामण्डलत्विषा' । कथंभूतया ? 'लसमानया' विलसन्त्या वर्धमानया वा । पुनः कथंभूतया ? ' ततानलसमानया' तत:-प्रसृतो योऽनलो-वह्निस्तेन समानया-सदृश्या ॥
___ अथ समास:--जिनानामोघो जिनौघः 'तत्पुरुषः। ध्वान्तस्यान्तो ध्वान्तान्तः 'तत्पुरुषः'। तं ध्वान्तान्तम् । भाया मण्डलं भामण्डलं ' तत्पुरुषः'। भामण्डलस्य त्विट् भामण्डल ० ' तत्पुरुषः' । तया भामण्डल • । ततश्वासावनलश्च ततानल: 'कर्मधारयः । ततानलेन समाना तना० ' तत्पुरुषा । तया तत० ॥ इति कान्यार्थः ॥२॥
सि. वृक्ष-जीयादिति । स मिनौधः-जिनसमूहः जीयात्-जयतादित्यर्थः । नि नये' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'ये' (सा० सू० ७७९ ) इति दीर्घः । तथाच 'जीयात्' इति सिद्धम् । अत्र जीयात् ' इति क्रियापदम् । कः कर्ता ! । 'जिनौघः' जिनानां ओषो जिनौघः । उह्यते वहति वा ओघः न्यवादौ साधुः । "ओघो वृन्देऽम्मसां रये" इत्यमरः (श्लो०२३८८)। यत्तदोर्नित्यसंबन्धात् सः कः।यो निनौघो भामण्डलत्विषा-मामण्डलकान्त्या ध्वान्तस्य–तमसः अन्तं-विनाश ततान-विस्तारितवान् । अत्रापि 'ततान' इति क्रियापदम् । कः कर्ता ? 'यः' । कं कर्मतापन्नम् ? (सा० स० ७१० ) इति धातोत्विम् । अत उपधायाः' (सा० सू० ७५७) इति वृद्धिः, 'स्वरहीनं0 (सा० सू० ३६ )। तथाच ' ततान ' इति सिद्धम् । अत्रापि 'ततान' इति क्रियापदम् । कः कर्ता। यः । के कर्मतापन्नम् ? । ध्वान्तान्तम् । “ अन्तः प्रान्तान्तिके नाशे, स्वरूपेऽतिमनोहरे " इति विश्वः । कया ? | 'मामण्डलत्विषा' भीमण्डलो देवनिर्मितो भगवत्पृष्ठे प्रभामण्डलस्तस्य विट-कान्तिः क्या । कथंभूतया ? | लसमानया-विलसन्त्या वर्धमानया वा । पुनः कथंभूतया ? । 'ततानलसमानया' ततोविस्तृतो यः अनल:-वह्निः तेन समानया-सदृशया ॥ २ ॥
सौ० वृ०-जीयादिति । स जिनौधा-तीर्थकरसमूहः जीयात् इत्यन्वयः। 'जीयात् ' इति क्रियापद । कः कर्ता ? | 'जिनौघः' । 'जीयात्' जयतात् । किंविशिष्टः जिनौघः ? । 'सः' प्रसिद्धः । प्रसिद्धार्थ: तच्छब्दो यच्छन्दमपेक्षते। सः कः? । यो जिनौघः ध्वान्तान्तं ततान इत्यन्वयः। 'ततान' इति क्रियापदम् ।
१ मण्डलशब्दस्य पुल्लिङ्गे प्रयोगो विचारणीयः ।
जनीघः । स.' प्रसिद्धः । प्रसिद्धार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org