________________
जिनस्तुतयः]
स्तुतिश्चतुर्विंशतिका यमाः" इति चिन्तामणि( का० १, श्लो० ८१)नाममालाया वचनात्, दया . यमाच द्यायमाः " इतरेतरद्वन्द्वः', तेषां हिताय-हितकारकाय, वृद्धिननकत्वात् । अवशिष्टं बैकं श्रीधर्मस्य सम्बोधनम् । तन्याख्या चैवं-हे ' महितायते !' महिता-पूजिता आयतिः-प्रमावः-उत्तरकालो वा यस्य स तथा तस्य सम्बोधनं हे महि० । " आयतिः संयमे दैये,प्रमावागामिकालयोः" इति विश्वः । के मामरेन्द्रनामेन्द्रः' मा-मनुष्याः अमरा-गीर्वाणाः मत्यार्थश्च अमराश्च मामराः 'इतरेतरद्वन्द्वः' तेषां इन्द्रा -स्वामिन नागेन्द्राश्च भवनपतिदेवविशेषास्तैः, नागानामिन्द्राः नागेन्द्राः 'तत्पुरुषः', मामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः 'इतरेतरद्वन्द्वः ॥१२॥
सौ. व. - योऽन्तदोषजित् अनन्तगुणवान् भवति स साक्षात मूर्तिमान धर्म एव भवति । अनेन सम्बन्धेनायातस्य पश्चदशश्रीधर्मजिनस्य स्तुतेरर्थो लिख्यते । नम इति ।
श्रीशब्दः पूज्यार्थे । हे श्रीधर्म !-पञ्चदशजिन ! (ते) तुम्यं नमः अस्तु इत्यन्वयाः। 'अस्तु' इति क्रियापदम् । किं कर्तृ ? । 'नमः'। 'अस्तु' भवतु । कस्मै ? । 'ते' तुभ्यम् । किविशिष्टाय ते । निर्गतः कर्मणां-ज्ञानावरणीयादीनाम उदयो यस्मात् स निष्कर्मोदयः तस्मै निष्कर्मोक्याय'। महितः-पूजितः आयतिः-उत्तरकालो यस्य स महितायति तत्सम्बोधनं हे 'महितायते !' । पुनः किंविशिष्टाय ते [ तुभ्यं ] । 'महिताय' पूजिताय । कैः । मा-मनुष्याः अमरा-देवाः तेषां इन्द्रा-स्वामिनः नागेन्द्राः-असुरकुमारेन्द्रादयः तैः 'मामरेन्द्रनागेन्द्रैः । पुनः किं० ते [ तुभ्यम् ] ? । दया-सकलप्राणिनाम् अवनं यमा-महाव्रतानि तेषां हिताय-हितकारिणे 'दयायमहिताय'। यद्वा आङ् मर्यादया यतयो यस्य स आयतिः तस्य सं० हे आयते! महिता-पूजिता आयतयो यस्य स महितायतिः। तस्य सं० हे महितायते ! । ते-तुभ्यम् नमोऽस्तु । इति पदार्थः॥
__ अथ समासः-दुर्गतौ प्रपतत्पाणिधारणाद् धर्मः। यद्वा स्वस्वभावं निर्मलतया धारणाव धर्मः। यद्वा भगवति गर्भसोथे मातुर्धर्मकरणदोहदानुमानेन नाम्ना धर्मः । श्रिया युक्तो धर्मः (श्रीधर्म:), तस्य सं० हे श्रीधर्म!। कर्मणां उदयः कर्मोदयः, निर्गतः कर्मोदयो यस्माद् यस्य वा तस्मै निष्कर्मोदयायामहिता आयतिः उत्तरकालो यस्य स महितायतिः, तस्य सं० हे महितायते ।। यद्वा आमादया यतयः आयतयः, महिता:-पूजिता (वन्तो ) आयतयो यस्य स महितायतेः, तस्य सं० हे महितायते ! । मयोश्च अमराश्च मामराः, मामराणां इन्द्राःमामरेन्द्राः, नागानां इन्द्राः नागेन्द्राः, भामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः, तैः मामरेन्द्रनागेन्द्रैः । दया च यमाश्च दयायमाः, दयायमानां दयायमेषु वा हितं यस्य स दयायमहितः, तस्मै दयायमहिताय । अनुष्टप्छन्दसा स्तुतिरियं मध्यान्त्यपदयमका।
"पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः।
षष्ठं गुरु विजानीया-देतत् पद्यस्य लक्षणम् ॥" इति प्रथमपद्यार्थः॥१॥
दे०व्या०-नम इति। हे श्रीधर्मनाथ! ते-तुभ्यं नमः अस्तु इत्यन्वयः। 'नमः' इत्यव्ययम् । धर्मशदेत्र धर्मनाथ एव गृह्यते । पदैकदेशे पदसमुदायोपचाराद् भीमो भीमसेन इति यावत् । किं विशिष्टाय 'ते' तुभ्यम् ? । 'निष्कर्मोदयाय' निर्गतः कर्मणां-ज्ञानावरणादीनां उदयः- उत्पत्तिर्यस्मात् स तस्मै, अकर्मकायेत्यर्थः। पुन किंविशिष्टाय ? । 'दयायमहिताय' दया-कृपा यमा-महाव्रतानि (अनयोः) पूर्व 'इन्द,तेष्ठ हितआनुकल्यं यस्य स तस्मै। "अहिंसासत्यमस्तेय-ब्रह्माकिञ्चनता यमाः" इत्यभिधानचिन्तामणिः (का०१श्लो. ८१)। 'महितायते !' इति । महिताः-पूजिता आ-समन्तात् यतयो-मुनयो यस्य स तस्यामन्त्रणं हे माहितायते ।। भगवत्सम्बोधनम् । कैः। 'मामरेन्द्रनागेन्द्रैः' मा-मनुष्याः अमरेन्द्राः-शकार दयः) नागेन्द्राधरणेन्द्रादयः पतेषां इन्द्रः तैः ॥ इति प्रथमवृत्तार्थः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org