________________
१५ श्रीधर्मजिनस्तुतयः अथ श्रीधर्मनाथाय प्रणामः
नमः श्रीधर्म ! निष्कर्मों-दयाय महितायते !। मामरेन्द्रनागेन्द्र-र्दयायमहिताय ते ॥१॥
-अनुष्टुप्
ज. वि.--नम इति । हे श्रीधर्म !-श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपयोपकक्षितधमाभिवतीर्यपते ! ते तुभ्यं नमः-नमस्कारः । अस्तु इति क्रियाऽध्याहियते । अत्र — अस्तु । इति क्रियापदम् । किं कन ? नमः । कस्मै १ 'ते'। कथंभूताय ते ? 'निष्कर्मोदयाय' निर्गतः कर्मोदयःमलोत्पादो यस्मात् स तथा तस्मै । पुनः कथं० १ ' दयायमहिताय ' दया-कारुण्यं यमा-अहिं. सासूनतादयः तेषां हिताय, वृद्धिजनकत्वात् । अवशिष्टं चैकं श्रीधर्मनाथस्य सम्बोधनं, तयाख्या यथा-हे 'महितायते !' महिता-पूजिता आयतिः-प्रभुता उत्तरः कालो वा आ-समन्ताद् यतयः-साधवो वा यस्य स तथा तत्सम्बो. हे महि० । कैः ? 'मामरेन्द्रनागेन्द्रः मानराः अमरा-देवाः तेषामिन्द्राः-प्रभवः नागा-भवनपतिविशेषास्तेषामिन्द्राश्च तैः तत्सम्बो० ॥
__ अथ समास:-त्रियोपलक्षितो धर्मः श्रीधर्मः ‘तत्पुरुषः । तत्सम्बो० हे श्रीधर्म!। कर्मणामुदयः कर्मोदयः ' तत्पुरुषः । । निर्गतः कर्मोदयो यस्मात् स निष्क० 'बहुव्रीहिः । तस्मै निष्क० । महिता आयतिर्यस्य स महि८ 'बहुव्रीहिः । यद्वा आ-समन्ताद् यतय आयतयः 'तत्पुरुषः महिता आयतयो यस्य स महि• 'बहुव्रीहिः। तत्सम्बो० हे महि० । मोश्च अमराश्च मत्योमराः 'इतरेतरद्वन्द्वः। मामराणां इन्द्रा मा० ' तत्पुरुषः । नागानामिन्द्राः नागेन्द्राः ' तत्पुरुषः ।। मामरेन्द्राश्च नागेन्द्राश्च मा० . इतरेतरद्वन्द्वः । तैः मा० । दया च यमाश्च दयायमाः 'इतरेतरद्वन्दः । । दयायमानां हितो दया० — तत्पुरुषः' । तस्मै दया० ॥ इति कान्याः ॥१॥
सि० ०-नम इति । दुर्गतौ प्रपतन्तं सत्त्वसञ्चातं धारयतीति धर्मः, गर्भस्थेऽस्मिन् माता दानादिधर्मपरा जातेति वा धर्मः, तस्य सम्बोधनं हे श्रीधर्म ! श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपयोपलक्षित | धर्मामिघतीर्थपते ! ते-तुभ्यं नमः-नमस्कारः अस्तु इत्यर्थः । तत्र नमः इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थमाह च-'नेवा'इयं पयं दव्वभावसंकोयणपयत्थो' (आव.गा.३४२) । नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो मवत्वित्यर्थः । अत्र ' अस्तु' इति क्रियापदम् । किं कर्तुं ! । नमः । कस्मै ! । ते। कमताय
। ' निष्कर्मोदयाय ' निर्गतः कर्मणां ज्ञानावरणादीनां उदय-उत्पादो यस्मात् स तथा तस्मै । पुनः कथंमताय ! । 'दयायमहिताय ' दया-कारुण्यं यमाः-पञ्चमहाव्रतानि, " अहिंसासत्यमस्तेय-प्रमाकिचनता
नेपातिक पदं द्रव्यमावसंकोचनपदार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org