________________
जिनस्तुतयः ]
स्तुतिश्चतुर्विंशतिका च असिश्च शरश्च धनुःफलकासिशराः ' इतरेतरद्वन्द्वः', ततः धृता धनुःफलकासिशरा यया सा ततः ? नित्यबहुव्रीहिः । कैः कृत्वा ? । करैः-हस्तैः । देव्याश्चतुर्भुजत्वेन प्रतिकरं एकैकायुधग्रहणादिति मावः । " धनुश्चापोऽस्त्रमिष्वास( सः ), कोदण्डं धन्व कार्मुकं " इति हैमः ( का० ३, श्लो० ४३९)। द्रुतविलम्बितं छन्दः । “ द्रुतविलम्बितमत्र नभौ भरौ” इति च तल्लक्षणम् ॥ ५ ॥
॥ इति महोपाध्यायश्रीभानुचन्द्र० श्रीअनन्तजिनस्तुतिवृत्तिः ॥ १४ ॥
सौ० वृक्ष-रसितमिति । अच्युता-अच्छुप्तानाम्नी देवी कं-सुखं दिशत्वित्यन्वयः । “दिशतु ' इति क्रियापदम् । का की ? । 'अच्युता'। दिशतु' ददातु । किं कर्मतापन्नम् ।। 'के 'सुखम् । किंविशिष्टा अच्युता ? 'काश्चनकान्तिः सुवर्णप्रभा, पीतवर्णेत्यर्थः। पुनः किं० अच्युता ? 'इता' प्राप्ता।कं कर्मतापनम् । 'उच्च०' उच्चम्-उन्नतं तुरङ्ममनायकम्-अश्वरत्नप्रधानम् । कस्मै । 'गमनाय गत्यर्थम्, अश्ववाहनप्राप्त्यर्थम । किंवि० ( उच्च )तुरङ्गमनायकम् ? । 'असितं' श्यामवर्णमित्यर्थः । पुनः किं० ( उच्च )तुरङमनायकम् ? । रसितेन-शब्देन कृत्वा या मुत्-हर्षः तेन चतुरः कुशलः तं 'रसितमुच्चतुरम् ', यद्वा रसितमुद्
त भिन्न पद देवाविशषणम्, चतुरामात अश्वविशेषणम् । पुनः कि० अच्युता ? । धृत-गृहीतं धनु:कोदण्डं फलकं-खेटकं असिः-खगः शरो-बाणो यया सा 'धृतधनुःफलकासिशरा' । कैः कृत्वा ।। 'करैः' हस्तैः कृत्वा । चतुवपि हस्तेषु चत्वारि शस्त्राणि धृतानि । इति पदार्थः ॥ ___ अथ समासः-रसितेन-हर्षारवेण-अश्वशब्देन मुद्-यस्याः सा रसितमुद्, यद्वा रसितस्य मुद् रसितमुद्, रसितमु चतुरः रसितमुच्चतुरः, तं रसितमुच्चतुरम् । गम्यते-ईप्सितदेशः प्राध्यते येन कृत्वा तद् गमनम्, तस्मै गमनाय । काञ्चनवत् कान्तिः यस्याः सा काश्चनकान्तिः। धनुश्च फलकच असिश्च शरश्च धनु :फल कासिशरा:, धृता धनु :फलकासिशरा यथा सा धृतधनु : फलकासिशरा । न सित : असितः, तम् असितम्। उच्चाश्च ते तुरङ्गगमाश्च उच्चतुरङ्गमाः, उच्चतुरङ्गमेषु-अष्टादशजातीयाश्वेषु नायकःश्रेष्ठः उच्चतुरङ्गमनायकः, तं उच्चतुरङ्गमनायकम् । आद्यन्तपदयमका स्तुतिरियम्॥ इति चतुर्थवृत्तार्थः ॥४॥
श्रीअनन्तजिनेशस्य, स्तुतेरर्थः स्फुटीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना॥
॥ इति अनन्तजिनस्तुतिः ॥ १४ ॥४॥५६॥ दे० व्या०-रसितमिति । अच्युता देवी-अच्छुमा देवी कं-मुखं दिशतु-देयादित्यन्वयः। दिश अति सर्जने' धातुः। 'दिशतु ' इति क्रियापदम् । का की ?। अच्युता। किं कर्मतापन्नम् ! । कं-सुखम् । “के शिरो जलमाख्यातं, कं सुखं परिकीर्तितम्" इत्यनेकार्थः। किंविशिष्टा अच्युता देवी । इता-प्राप्ता। कम् । उच्चतरङ्गमनायकं-तुरङ्गमप्रकाण्डम् । किं विशिष्टम् ? | रसितं-शब्दायमानम् । पुन: किंविशिष्टम् ? । 'उच्चतरं' उत्-प्राबल्येन चतुरं-दक्षम् । यद्वा रसिते मुद्-प्रमोदो यस्य स चासौ चतुरश्च तम् । गमनाय-गत्यर्थम् । पुनः किंविशिष्टम् । । असितं-नीलवर्णम् । किंविशिष्टा देवी ?। 'काञ्चनकान्तिः, काञ्चनवत् कान्तिः-दीप्तिः यस्याः सा । पुनः किंविशिष्टा । 'धृतधनुःफलकासिशरा' धृताः चापावरणखडबाणा यया सा। कैः। करैःशयै । "पञ्चशाखः शयः शमः । हस्तः पाणि: करो'' इत्यभिधानचिन्तामणिः (का० ३, श्लो० २५५) । इति तुरीयवृत्तार्थः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org