________________
१६०
स्तुतिविशतिका
[ १४ श्री अनन्त-
किं कर्मतापनम् ? 'कम्' । कथंभूता अच्युता ? ' इता' प्राप्ता, समारूढेति भावः । कं कर्मतापन्नम् ? 'उच्चतुरङ्गमनायकम्' उच्चः - प्रांशुः तुरङ्गमनायकः - तुरङ्गममकाण्डो - घोटकोत्तमस्तं उच्चतुरङ्गमनायकम् । कथंभूतम् ? ' रसितं ' शब्दायितं, हेपारवसंयुतमित्यर्थः । पुनः कथं ० ? ' उच्चतुरम् ' उत्-पावल्येन चतुरं गृहीतशिक्षम् । अथवा रसितमुच्चतुरमिति अखण्डमेवेदं विशेषणम् । यथाचायमर्थः- रसिते- ध्वनिते मुन्- प्रमोदो यस्य स रसितमुत् स चासौ चतुरश्र रसितमुञ्चतुरस्तम् । पुनः कथं० ?' असतं' नीलम् । कस्मै तमिता ? ' गमनाय गत्यर्थम् । पुनः कथं ० अच्युता ? काञ्चनकान्तिः ' काश्चनवत् कान्तिर्यस्याः सा काञ्चन० । पुनः कथं ० १ धृतधनुः फल कात्रिशरा' धनुः कार्मुकं फलकं- खेटकं असि:-तरवारिः शरः वाणः, ततो वृता धनुःफलकासिशरा यया सा तथा । कैः कृत्वा ? ' करैः पाणिभिः । चत्वार्यपि प्रहरणानि चतुर्भिः करैर्धृतानीत्यर्थः ॥
,
،
-----
अन्य समासः -- उत्- प्राबल्येन चतुरः उच्चतुर: 'तत्पुरुषः । तं उच्चतुरम् | अथवा रसिते सुद् यस्य स रसितत् 'बहुवीहिः" । रसितमुत् चासौ चतुरश्च रसित० 'कर्मधारयः । तं रसित० । काञ्चनस्येव कान्तिर्यस्याः सा काञ्चन० 'बहुवीहिः । धनुश्च फलकं च असिश्च शरथ धनुःफलकाखिराः' इतरेतरद्वन्द्वः । धृता धनुः फलकासिशरा यया सा धृत० ' बहुव्रीहिः ' । न सिवः असितः ' तत्पुरुषः ' । तं असितम् । तुरङ्गमानां तुरङ्गमेषु वा नायकः तुरङ्ग ० ' तत्पुरुषः । चासौ तुरङ्गमनाथ उच्चतु० ' कर्मधारयः । तं उच्चतुरङ्गम० । इति काव्यार्थः ॥ ४ ॥
1
॥ इति श्रीशोभनस्तुतिसौ अनन्तजिनपतिस्तुतेर्व्याख्या ॥ १४ ॥
6
,
सि०वृ० - रसितमिति । अच्युता-अच्युताख्या अच्छुमारनाम्नी देवी कं सुखं दिशतु - ददात्विति सम्बन्धः । “ दिश अतिसर्जने " घासोः आशीः प्रेरणयोः (सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तुप् । ' तुदादेर: ' ( सा० सू० १००७), ' स्वरहीनं०' (सा० सू० ३६ ) । तथाच ' दिशतु ' इति सिद्धम् । अत्र ' दिशतु ' इति क्रियापद । का कर्त्री ? | अच्युता । किं कर्मतापन्नम् ? | कम् । “ कं शिरो जलमाख्यातं, कं सुखं परिकीर्तितं " इति केशवः । " कं शीर्षेऽप्सु सुखं ” इला नेकार्थः । कीदृशी अच्युता ? । इता - प्राप्ता. समारूढेत्यर्थः । कम् ? 'उच्चतुरङ्गमनायकम् । च्चः- ! - प्रांशुः यः तुरङ्गमनायकः- तुरङ्गमप्रकाण्डः - घोटकश्रेष्ठस्तं उच्चतुरङ्गमनायकम् । कीदृशम् । रमितं - शब्दायितं, हेषारवसंयुतमित्यर्थः । “हेषा हेषा सुरङ्गाण" (अभि० का ०६, श्लो०४१), "स्वनितं गर्जितं मेघनिर्घोषे रसितांदि च" इत्यमरः (लो० १६१) । इति विशेषोऽत्र न विविक्तः । पुनः कीदृशम् ? । 'उच्चतुरं' उत्- प्राबल्येन चतुरं गृहीतशिक्षम् । अथवा रसितमुच्चतुरं इत्यखण्डमेवेदं विशेषणम् । तथाचायमर्थः -- रमिते व मुस्- प्रमोदो यस्य (स) रसितमुत्, स चासौ चतुरश्च रसितमुच्चतुरस्तम् । पुनः कथंभूतम् ? । असितं - नीलम् । कस्मै ? । गमनाय - गत्यर्थम् | पुनः कथंभूता भच्युता ? ।' काञ्चनकान्तिः काञ्चनं कमकं तदिव क्रान्तिर्यस्याः सा । पुनः कथंभूता ? ।
"
धूम्रपानुः कलकासिमारा ' भ्रमुः- आमुकं फलकं खेटकं असि:- करवाचः शरः - बाणः, धनुश्च फलक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org