________________
१५९
जिनस्तुतयः]
स्तुतिचतुर्विशतिका सौ. वृ०-परमतति । भो भव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तो भवतो-युष्मान् भवतःसंसारात् अवतादित्यन्वयः। अवतात्' इति क्रियापदम् । किं कर्तृ?। 'मतम् । 'अवतात्' रक्षतात् । कान् कर्मतापनान् ? । 'भवतः । कस्मात् । 'भवतः संसारात्। मतं कस्य। जिनपतेः'। किंवि० मतम् । परेषां मतानि सौगतादीनि तेषां आपदिव आपद् ‘परमतापत् ' । पुनः किं० मतम् ? । अमानानि-अप्रमाणानि सजन्ति-सहं कुर्वन्ति मनसः-चेतसः प्रियाणि-आइलादकारकाणि पदानि-अर्हदादीनि यस्मिन् सत् 'अमानसजन्मन:प्रियपदम् ' । किंवि० जिनपतेः । अस्तो-निराकृतो जगत्त्रय्या-विष्टपत्रयस्य परमः-- प्रकृष्टः तापदः-तापदायको मानसजन्मा-कामो येन सः अस्तजगत्त्रयीपरमतापदमानसजन्मा तस्य 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' । एवंविधस्य जिनपतेर्मतं भवतः-संसारात् भवतो-युष्मान अवतादिति पदार्थः॥
अथ समास:--परेषां मतानि परमतानि, यद्वा पराणि च तानि मतानि च परमतानि, परमतेषुपरमतानां वा आपदिव आपद् परमतापत् । मनसः प्रियाणि मनप्रियाणि, सजन्ति च तानि मनाप्रियाणि च सजन्मन:प्रियाणि, न मानानि अमानानि, अमानानि च तान सज० अमानसज०, अमानसजन्मन:प्रियाणि पदानि यस्मिन् यस्मै वा तद् अमानसजन्मन:प्रियपदम् । जिनानां पति: जिनपतिः, तस्य जिनपतेः । तापं ददातीति तापदः परमश्चासौ तापदश्च परमतापदः,जगतां त्रयी जगत्त्रयी, जगत्त्रय्या: परमतापदः जगत्त्रयीपरमतापदः, मानसात् जन्म यस्य स मानसजन्मा, जगत्त्रयीपरमतापश्चासौ मानसजन्मा च जगत्त्रयीपरमतापदमानसजन्मा, अस्तोध्वस्तो जगत्त्रयीपरमतापदमानसजन्मा येन सः अस्तजगत्त्रयीपरमतापदमानसजन्मा, तस्य अस्तजगत्त्रयीपरमतापदमानसजन्मनः । "मन:शृङ्गारसङ्कल्पात्मानो योनिः" इत्यभिधानचिन्तामणिः (का०२, श्रो० १४३)। इति तृतीयवृत्तार्थः॥३॥
दे० व्या०परमतति । जिनपतेः-तीर्थङ्करस्य मते-प्रवचनं भवतो-युष्मान् भवतः-संसारात् अवतात्-रक्षतात् इत्यन्वयः। 'अव रक्षणे' धातुः । 'अवतात्' इति क्रियापदम् । किं कर्तृ । मतम् । कान् कर्मतापज्ञान । भवतः । कस्य ? । 'जिनपतेः' जिनानां पतिः जिनपतिः इति विग्रहः तस्य । कस्मात् ।। भवतः। किंविशिष्टं मतम् ? । 'परमतापत्' परेषां मतं परमतमिति षष्टीतत्पुरुषः तस्य आपत्-आपदाभूतं तन्यक्कातहेतुत्वात् । पुनः किंविशिष्टम् । 'अमानसजन्मनःप्रियपदम् । अमानानि-अपमाणानि सजन्तिसंबध्यमानानि मन:प्रियाणि-हृदयालादीनि पदानि-सुपूतिङन्तानि यत्र तत् । किविशिष्टस्य जिनपतेः। 'अस्तजगत्रयीपरमतापदमानसजन्मनः' अस्तो-विश्वस्तो जगस्त्रय्याः परमतापदो-महासन्तापकारी मानसजन्माकामो येन तस्य । इति तृतीयवृत्तार्थः ॥ ३॥
श्रीअच्युतायाः स्तुतिः
रसितमुच्चतुरं गमनाय के
दिशतु काञ्चनकान्तिरिताऽच्युता । धृतधनुःफलकासिशरा करै
रसितमुच्चतुरङ्गमनायकम् ॥ ४ ॥
ज० वि०-रसितमिति । अच्युता-अच्युताख्या अच्छुप्तापरनाम्नी देवी के-सुखं दिशतुददातु इति क्रियाकारकसम्बन्धः । अत्र 'दिशतु' इति क्रियापदम् ? । का की 'अच्युता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org