________________
१५८ स्तुतिचतुर्विंशतिका
[१४ श्रीअनन्तकथं० ? 'अमानसजन्मनः प्रियपदम्' अमानानि-अप्रमाणानि सजन्ति-सम्बध्यमानानि मन:मियाणि-हृदयाह्लादीनि पदानि-स्यादित्यादिविभक्त्यन्तरूपाणि यत्र तत् तथा । जिनपतेः कथंभूतस्य ? 'अस्तजगत्रयीपरमतापदमानसजन्मनः' जगत्रय्याः -त्रिभुवनस्य परमतापदः-- प्रकृष्टसन्तापदायी यो मानसजन्मा-कामः सः अस्त:-क्षिप्तः येन स तथा तस्य ॥
अथ समासः-परेषां मतानि पर० ' तत्पुरुषः ।। परमतानामापत् परमतापत् ' तत्पु. रुषः' । मनसः प्रियाणि मनःप्रियाणि 'तत्पुरुषः' । सजन्ति च तानि मनःप्रियाणि च सजन्म 'कर्मधारयः ।।सजन्मनःप्रियाणि च तानि पदानि सजन्म० 'कर्मधारयः ।न विद्यते मानं येषां तान्यमानानि 'बहुव्रीहिः' । अमानानि सजन्मन:प्रियपदानि यस्मिस्तत् अमानसजन्म० 'बहुव्रीहिः।। जिनानां जिनेषु वा पतिर्जिन 'तत्पुरुषः । तस्य जिन० । जगतां त्रयी जगत्रयी' तत्पुरुषः । परमश्चासौ तापश्च परमतापः 'कर्मधारयः' । परमतापं ददातीति परमतापदः' तत्पुरुषः'। जगत्रय्याः परमतापदो जगत्र० 'तत्पुरुषः' । मानसाजन्म यस्य स मानसजन्मा ‘बहुव्रीहिः ।। जगत्रयीपरमतापदश्वासौ मानसजन्मा च जग० 'कर्मधारयः' । अस्तो जगत्रयीपरमतापदमानसजन्मा येन सोऽस्तजगत्र० 'बहुव्रीहिः'। तस्य अस्तजगत्र०॥ इति काव्यार्थः ॥३॥
सि. वृ०-परमतेति । मो मव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तः भवतः--युष्मान् भवतः-संसारतः अवतात्-रक्षत्वित्यर्थः । अव रक्षणे' धातोः 'आशी:प्रेरणयोः' (सा० सू० ७०३) कर्तरि परस्मैपदे प्रथमुरुषैकवचनं तुप । 'तुदादेरः' (सासू० १००७) 'तुह्योस्तातडाशिषि वा' (सा०स० ७०४) इति तातडादेशः। तथाच ' अवतात्' इति सिद्धम् । अत्र 'अवतात्' इति क्रियापदम् । किं कर्तृ । मतम् । कान् कर्मतापन्नान् ? । भवतः । कुतः? । भवतः । मतं कस्य? । जिनपतेः । कथंभूतं मतम्? । 'परमतापत्' परमतानां-विपक्षगमानामापद्धेतुत्वाद् आपत् । पुनः कथंभूतम् ? । ' अमानसजन्मनःप्रियपदं' अमानानि अप्रमाणानि सन्ति--सम्बध्यमानान मनः प्रियाणि-हृदयाह्लादीनि पदानि-स्यादित्यादिविभक्त्यन्तरूपाणि यत्र तत् तथा । अर्थसमाप्ति: पदमित्येके स्याद्यन्तं त्याद्यन्तं च तत् इत्यन्ये ॥
" एकाधिकपञ्चाशत्कोटयोष्टौ लक्षकाः ते द्वे (हे ? ) नाश्च ।
षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुनः॥ वर्णाष्टकमेकपदे श्लोकानां मानमागमस्योक्तम् ।
जिनभाषितस्य सैकादशाङ्गपूर्वस्य विद्वद्भिः॥" इत्यपरे । कथंभूतस्य जिनपतेः ! । 'अस्तजगत्रयीपरमतापदमानसजन्मनः ' जगतां-लोकानां स्वर्गमर्त्यपाताललक्षणानां त्रयी जगत्रयी तस्याः परमं-प्रकृष्टं तापं ददातीति परमतापदायी यो मानसजन्मा–कामः सः अस्त:-अस्तं नीतो येन स तस्य, परमश्चासौ तापश्च परमतापः इति · कर्मधारयः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org