________________
जिनस्तुतयः]
स्तुतिधतुविशतिका
१५७
पूजितः, तस्य सं० हे रतामरसेवित ! । पुनः क्षणः-उत्सवः तं पयकर्षेण ददातीति, तस्य सं० हे क्षणप्रद ! । पुनः वरम्-ईप्सितं दानं ददातीति वरदः, तस्य सं० हे वरद! । पुनः विततानि-विस्तीर्णानि-प्रकाशमयानि नेत्राणि यस्य स विततेक्षणः, तस्य सं० हे विततेक्षण।। ते-तव पादयुगं-चरणयुगं मम-अस्मत्सरका अज्ञतां-जाड्य निहन्तु इत्यन्वयः। 'निहन्तु' इति क्रियापदम् । किं कर्तृ ? । 'पादयुमम्' । 'निहन्तु विनाशयतु । कां कर्मतापन्नाम् ? । 'अज्ञतां' अज्ञानत्वम् । कस्य ? | 'मम' मदीवाम् । किंवि० पादयुगम् ! । 'गतं' प्राप्तम् । कस्मिन् ! । अमराणां-देवानां तामरसं-कमलं तस्मिन् 'अमरतामरसे', सुरनिर्मितानि कमलामि बहूनि सन्ति, पर जातावेकवचमत्वात् । इति पदार्थः॥ ___ अथ समासः-ताश्च ते अमराश्च रतामराः, रतामरैः सेवितः रतामरसेवितः, तस्य सं०हे रतामरसेवित । क्षणं प्रकर्षेण दवातीति क्षणप्रदः, तस्य सं० हे क्षणपद।जिनानां इन्द्रा जिनेन्द्राः, जिनेन्द्राणां कदम्बकं जिने, तस्य सं० हे जिनेन्द्रकदम्बक ! । वरं ददातीति वरदः, तस्य सं० हे वरद ! । पादयोयुग पादयुगम् । जानातीति ज्ञः, न ज्ञः अज्ञः, अज्ञस्य भावः अज्ञता, तो अज्ञताम् । अमराणां तामरसं अमरतामरस, तस्मिन् अमरतामरते । विततानि ईक्षणानि यस्य स पिततेक्षणः, तस्य सं० हे बिततेक्षण ! ॥ इति द्वितीषवृत्तार्थः ॥ २॥
दे०व्या०- मम रतामरेति । हे 'जिनेन्द्रकदम्बक' ! जिनेन्द्राणां कदम्बक-समूहः तस्यामन्त्रणं ते-तव पादचुगं-चरणयुगलं मम अज्ञतां-मूढतां निहन्तु-विनाशयत इत्यन्वयः। 'हन हिंसामत्योः' इति धातुः। 'निहन्तु' इति क्रियापदम् । किं कर्तृ । पादयुगम् । पादयोः युगं पादयुगमिति विग्रहः। कस्य । ते-तव । कां कर्मतापन्नाम् ? 'अज्ञता' अज्ञस्य भावः अज्ञता ताम् । कस्य ।। ममार्किविशिष्टं पादयुगम् ।गतं-न्यस्तम्। कस्मिन् ? । 'अमरतामरसे' अमरसम्बान्ध यत् तामरसं-कमलं तस्मिन् ।माप्तिभिर्देशानेकवचनम् । 'रतामरसेवित' ! इति । रताः-आसक्तचित्ताः ये अमरा-देवाः तैः सेवितः-पर्युपासितः यः स तस्यामन्त्रणम् । 'क्षणप्रद! इति । क्षणं-उत्सर्व प्रकर्षेण ददातीति क्षणप्रदः तस्यामन्त्रणम् । 'वरद !' इति । घरं-वाञ्छितं ददातीति बरदः तस्यामन्त्रणम् ।' विततेक्षण!' इति । वितते-विशाले ईक्षणे यस्य स सस्थामन्त्रणम् । एतानि सर्वाणि भगवतः संबोधनपदानि । इति द्वितीयवृत्तार्थः॥२॥
भागमस्तुतिः
परमतापदमानसजन्मनः
प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयी
परमतापदमानसजन्मनः ॥ ३ ॥
ज० वि०-परमतेति । भो भव्या ! जिनपवे:-भगवतः मत-सिद्धान्तः भवतः-युष्मान भवतः-संसारतः अवतात्-रक्षतु इति क्रियाकारकमयोगः । अत्र — अक्तात् ' इति क्रियाप. दम् । किं कर्तृ? 'मतम्' । कान् कर्मतापभान् ? 'भवतः । कुतः ? 'भक्तः संसारतः। मतं कस्व? 'जिनपतेः' । कथंभूतं मतम् ? ' परमप्तापत्' परमलाना-विषक्षागपानां आपढेतुत्वादावत् । कुन:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org