________________
१५६
स्तुतिचतुविशतिका
[६४ श्रीजनन्त
युगं कस्य ? 'ते। कथंभूतं पादयुगम् ? गत ' प्राप्तम् । कस्मिन् ? ' अमरतामरसे' बमरसम्बन्धिनि तामरसे-कमले । अत्रैकवचननिर्देशस्तु जात्यपेक्षया पर्यवसेयः । अपराणि सर्वाण्यपि जिनकदम्बकस्य सम्बोधनानि, तेषां व्याख्या त्वेवम्- हे 'रतामरसेवित !' रता-भक्तिभाग्मारवशादासक्तचिता ये अमरा-देवाः सैः सेवित !-पर्युषीसित ।। हे 'क्षणप्रद !' उत्सवा. दायिन् ! । हे 'वरद ! ' वाञ्छितदायक ! हे 'विततेक्षण ! ' विशाललोचन!॥
अथ समासः-रताश्च ते अमराश्च रतामराः कर्मधारयः' । रतामरैः सेवितो रता० 'तत्पुरुषः । तत्सम्बो० हे रता० । क्षणाम् प्रददातीति क्षणप्रदः 'तत्पुरुषः । तत्सम्बो. हे क्षण | जिनानां जिनेषु वा इन्द्रा मिनेन्द्राः 'तत्पुरुषः । जिमेन्द्राणां कदम्बकं मिनेन्द्रकद. बकं 'तत्पुरुषः । तत्सम्बी० हे जिनेन्द्र० । वरं ददातीति वरदः तत्पुरुषः । तत्सम्बो. हे वरद ! । पादयोर्युगं पादयुगं तत्पुरुषः । न ज्ञः अज्ञः 'तत्पुरुषः । अज्ञस्य भावोऽज्ञता। तो अज्ञताम् । अमराणां सामरस अमर० 'तत्पुरुषः । तस्मिनमर० । वित्तते ईक्षणे यस्य स वितते. 'बहुव्रीहिः । । तत्सम्बो० हे वितत० ।। इति काव्यार्थः ॥ २ ॥
सि० १०-मम रतामरेति । हे जिनेन्द्रकदम्बक !-तीर्थंकरसमूह ! ते तव पादयुगं-चरणद्वयं मम अज्ञातां निसन्तु-नाशयतु इति क्रियाकारकसण्टकः । अत्र 'निहन्तु' इत्ति क्रियापदम् । किं कर्तृ ।। पादयुगम् । कां कर्मतापन्नाम् ! । अज्ञताम् ! | कस्थ ! | मम । पावयुगं कस्य ! । ते। कथंभूत पादयुगम् ! । गत-प्राप्तम् । कस्मिन् ? । 'अमरतामरसे' अमरसम्बन्धिनि तामरसे-कमले । " तामरसं महोत्पलं ” इति अभिधानचिन्तामणो ( का० १, श्लो० २२७) । भत्रैकवचननिर्देशस्तु जात्यपेक्षयाऽवसेयः । अपराणि सर्वाण्यपि जिनेन्द्रकदम्बकस्य सम्बोधनानि, तेषां व्याख्या त्वेवम्-हे रितामरसेवित!' रता-मक्तिप्राग्मारवशात् आसक्तचित्ता ये अमरा-देवाः तैः सेवित !-पर्युपासित ।। हे क्षणप्रद !-उत्सवप्रदायिन् !। हे वरद !-वाञ्छितदायक ! हे विततेक्षण!-विशाललोचन ! ॥
अथ समासानाह-रताश्च ते अमराश्च रतामराः · कर्मधारयः', रतामरैः सेवितो रता० 'तत्पुरुषः', ( तस्य सं० ) हे रतामरसेवित ! 1 सणान् प्रददात्तीति क्षणप्रदः । तत्पुरुषः', तत्सम्बोधन हे क्षणप्रद ! । जिनानां मिनेषु वा इन्द्रा जिनेन्द्राः ' तत्पुरुषः', मिनेन्द्रामं कदम्बकं मिनेन्द्र० ' तत्पुरुषः', तत्सम्बोधनं हे जिनेन्द्र० । वरं ददातीति वरदः । तत्पुरुषः', तत्सम्बोधनं हे वरद ! । पादयोयुगं पादयुगं
तत्पुरुषः । न ज्ञः अज्ञः ' तत्पुरुषः । अज्ञस्य मावोऽज्ञता, तां अज्ञताम् । अमराणां तामरसं अमर० 'तत्पुरुषः', तस्मिन् अमर० । वितते ईक्षणे यस्य स वितते० ' बहुव्रीहिः', तत्सम्बोधनं हे विततेक्षण ।। इति काम्वार्थः ॥ २॥
सौ० वृ०-मम रतामरेति । जिना:-सामान्यकेवलिन तेषां इन्द्रा:-स्वामिनता कदम्बकवृन्वं तस्य सं० हे जिनन्द्रकदम्बक!-तीर्थकरसमूह! । पुनः रता-भक्तिनम्तो ये अमरा-वास्तैः सविता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org