SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका १५५ 'मतं' अभीष्टम् । कस्य ? । 'तव' । अभिषेकजलप्लवाः कस्य ?। अनन्तजित:-अनन्ततीर्थकृतः । अनन्तजिनेशस्य द्वे नाम्नी, “अनन्तजित् अनन्तः" इत्यभिधानचिन्तामणिः ( का० १, श्लो० २९)। किंवि० अभिषेकजलप्लवाः ? । सकलाः-समस्ताः धौताः-क्षालिताः सहासा-विकसिता नमेरवो-देववृक्षविशेषा यैः ते 'सकलधौतसहासनमेरवः' । पुनः किं० अभिषेकजलप्लवाः ।। स्लपितं-स्वापितम् उल्लसत्-दीप्यमानं कलधौतं-सुवर्ण तेन सहितं सकलधौत सह-समर्थम् आसनं-सिंहासनम्, यद्वा असनः-शालवृक्षविशेषो यस्मिन् तादृशो मेरुयैस्ते 'स्लपितोल्लसत्सकलधौतसहासनमेरवः' । इति पदार्थः॥ अथ समासः-सकलाश्च ते धौताश्च सकलधौताः, हासेन सहिताः सहासाः, सकलधौताश्च ते सहासाश्च सकलधौतसहासाः, सकलघौतसहासा नमेरवो यैः ते सकलधौतसहासनमेरवः । अभिषेकस्य जलम् अभिषेकजलम्, अभिषेकजलस्य प्लवा अभिषेकजलप्लवाः । अनन्तकर्मादिपक्ष जयतीति अनन्तजित्, तस्य अनन्तजितः । कलधौतेन सहितं सकलधौतम्, उल्लसत् च तत् सकलधौतं च उल्लसत्. सकलधौतम, सह्यते इति सहम्, सहं च तद् आसनं च सहांसनम्, उल्लसत्सकलधौतं च तत् सहासनं च उल्लसत्सकलधौतसहासनम्, स्नपितेन उल्लसत्० स्नपितो०सकलधौतसहासनम्, यद्वा असना:शाल वृक्षविशेषा यस्मिन् स नपितोल्लसत्सकलधौतसहासनः। स्नपितोलसत्सकलधौतसहासनो मेरुयैस्ते स्नपितोलसत्सकलधौतसहासनमेरवः । एतादृशा अनन्तजितः अभिषेकजलप्लवाः तव मतंअभिमतं दिशन्तु । द्रुतविलम्बितच्छन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥ १॥ दे०व्या०--सकलधौतेति । अनन्तजितः-अनन्तजिनस्य अभिषेकजलप्लवाः तव-भवतः मतं-वाञ्छितं दिशन्तु-ददतु इत्यन्वयः। 'दिश अतिसर्जने' धातुः। 'दिशन्तु ' इति क्रियापदम् । के कर्तारः । अभिषेकजलप्लवाः । “अम्बु वृद्धौ पूरः प्लवश्च सः (प्लबोऽपि च )" इत्यभिधानचिन्तामणिः (का०४, श्लो०१५३)। किं कर्मतापन्नम् ? । मतम् । कस्य । अनन्तजितः । किंविशिष्टा अभिषेकजलप्लवाः ।। 'सकलधौतसहासनमेरवः' सकलाः-समस्ताः ते च ते धौता:-प्रक्षालिताः सहासा-विकसितपुष्पा नमेरवो-वृक्षाविशेषा यैस्ते तथा । पुनः किंविशिष्टाः ।' स्नपितोल्लसत्सकलधौतसहासनमेरवः । स्नपिता-स्नानं कारितः उल्लसन्-शोभमान सहेम-सकलधौतं सहासनमेरुयैस्ते तथा ॥ इति प्रथमवृत्तार्थ ॥१॥ जिनसमुदायस्य विज्ञप्तिः मम रतामरसेवित ! ते क्षण प्रद ! निहन्तु जिनेन्द्रकदम्बक !। वरद ! पादयुगं गतमज्ञताममरतामरसे विततेक्षण ! ॥२॥ -द्रुत० ज० वि०-मम रतामरेति । हे जिनेन्द्रकदम्बक !-तीर्थकरसमूह ! ते-तब पादयुगं-चरणद्वयं मम अज्ञता-मूढतां निहन्तु-विनाशयतु इति क्रियाकारकसंटङ्कः । अत्र 'निहन्तु ' इति क्रियापदम् । किं कर्तृ ? ' पादयुगम् ' । कां कर्मतापनाम् ? 'अज्ञताम् । कस्य ? 'मम ।। पाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy