________________
स्तुतिचतुर्विशतिका
[१४ श्रीअनन्तसहासनं कर्मधारयः ।। उल्लसत्सकलधौतं सहासनं यस्मिन् स उल्लस० 'बहुव्रीहिः । उल्लसत्सकलधौतसहासनश्चासौ मेरुश्च उल्लस० कर्मधारयः' । स्नपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्नपितोल्ल. 'बहुव्रीहिः ॥ इति काव्यार्थः ॥ १॥
सि० १०-सकलधौतेति । भो भव्यात्मन् ! अनन्तानि ज्ञानादीनि अस्य, नास्ति गुणानामन्तो वाऽस्येति अनन्तः, स चासौ जिच्च अनन्तनित् तस्य अनन्तनितः-अनन्तजिन्नाम्नो जिनस्य । अनन्तनाथस्य अनन्तनित् इत्यपि नामान्तरमस्ति । यदाहुः (अभि० का० १, श्लो० २९)
___“ ऋषभो वृषभः श्रेयान् , श्रेयासः स्यादनन्तजिदनन्तः। .
सुविधिस्तु पुष्पदन्तो, मुनिसुव्रत-सुव्रती तुल्यौ ।।" --आर्या । इति हेमसूरिपादाः । 'अभिषेकजलप्लवाः' अभिषेकः-जन्माभिषेकः तस्य जलप्लवा:-जलप्रवाहाः तवभवतः मतं-अभिप्रेतं दिशन्तु-ददत्वित्यर्थः । 'दिश अतिसर्जने' धातोः 'आशी:प्रेरणयोः' (सा० सू० ७०३) कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं अन्तु । 'तुदादेरः ' (सा० स० १००७), 'स्वरहीनं ० ' (सा० सू० ३१) । तथाच 'दिशन्तु ' इति सिद्धम् । अत्र ‘दिशन्तु ' इति क्रियापदम् । के कर्तारः ? । अभिषेकनलप्लवा: । "अम्बुवृद्धौ पूरः प्लवश्च सः (प्लवोऽपि च)'' इति हैम: (अभि०का० ४, श्लो. १५३) । किं कर्मतापन्नम् ! । मतम् । कस्य । तव । अभिषेकनलप्लवाः कस्य ? । 'अनन्तनितः ' अनन्तान् कमांशान् जयति, अनन्तैर्ज्ञानादिभिर्वा जयति-रानते इत्यनन्तजित् तस्य । किंविशिष्टा अमिषेकजलप्लवाः ? । ' सकलधौतसहासनभेरवः ' सकला:-सर्वा धौता:-क्षालिताः सहासा:-सविकासा नमेरवःदेववृक्षविशेषा यैस्ते तथा । सहासाश्च ते नमेरवश्व सहासनमेरवः इति · कर्मधारयः ।। " नमेरुः सुरपुन्नागः" इति विश्वः । (पुनः कं थ० ?) 'स्नपितोल्लसत्सक लघौ तसहासनमे रवः' उल्लसन-शोभमानः सकलधौतं कलधौतं-सुवर्ण तेन सह वर्तमानः सहासनः आसनेन-स्नानपीठेन असनैः-वृक्षविशेषैर्वा सह वर्तमानः, एवंविधो यो मेरुः-मेरुपर्वतः स उल्लसत्सकलधौतसहासनमेरुः, ततः स्नपितः-स्नानं कारित उल्लसत्सकलधौतसहासनमेरुः यैस्ते तथा । यदिवा उल्लसत्सकलधौतं सह-क्षमं दृढमित्यर्थः, एतादृशं आसनं यत्र स सकलधौतसहासनः, एतादृशो मेरुः स्नपितो यैस्ते तथेत्यर्थः । उल्लसच्च तत् सकलधौतं च उल्लसत्सकलधौतं इति 'कर्मधारयः', सहं च तदासनं च सहासनं ( इति ) कर्मधारयः,' उल्लसत्सकलधौतं सहासनं यस्मिन् स तथेति 'बहुव्रीहिः', उल्लसत्सकलधौत( सहासन )श्चासौ मेरुश्च उल्लसत्सकलधौतसहासनमेरुः इति 'कर्मधारयः', स्नपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्नपितोल्लसत्सकलधौतसहासनमेरवः इति 'बहुव्रीहिः'। " कलधौतं रूप्यहनोः, कलधौतः कलध्वनौ " इति विश्वः ॥ १॥ __सौ० वृ०-यो विगतमलो भवति सोऽनन्तगुणवानेव भवति । अनेन संबन्धेनायातस्य चतुर्दशश्रीअनन्तजितः स्तुतिः प्रारभ्यते-सकलधौतेति।
भो भव्याः । अनन्तजितः-अनन्ततीर्थकृतः अभिषेको-जन्ममहोत्सवस्नात्रं तस्य जलं-वारि नस्य प्रवा:-प्रवाहाः अभिषेकजलप्रवाः तव-भवतः मतम्-अभिमतं दिशन्तु इत्यन्वयः। 'दिशन्तु इति क्रियापदम् । के कर्तारः ? । 'अभिषेकजलप्लवाः' । 'विशन्तु' ददतु । किं कर्मतापनम् । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org