________________
९४ श्रीअनन्तजिनस्तुतयः। अथ श्रीअनन्तनाथस्य स्तुतिः
सकलधौतसहासनमेरव
स्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनगरवः ॥ १॥
-द्रुतविलम्बितम् ज०वि०-सकलधौतेति। भो भव्यात्मन्! 'अनन्तजिनः' अनन्तजिन्नाम्नो जिनस्य, अनन्तस्य अनन्तजित इत्यपि नामास्ति. "स्यादनन्तजिदनन्तः" इत्यभिधानचिन्तामणि (का०१, श्लो०२९)रचनात, 'अभिषेकजलप्लवा: अभिषेकस्य-जन्माभिषेकस्य जलप्लवा:-जलप्रवाहाः तव-भवतः मतं-अभिप्रेतं दिशन्तु-ददतु इति क्रियाकारकान्वयः । अत्र 'दिशन्तु ' इति क्रियापदम् । के कर्तारः ? ' अभिषेकजलप्लवाः । किं कर्मतापन्नस् ? " मतम् ।। कस्य ? ' तव '। अभिषेकजलप्लवाः कस्य ? ' अनन्तजितः । कथंभूता अभिषेकजलप्लवाः ? 'सकळधौतसहासनमेरवः' सकला:-समस्ता धौताः-क्षालिताः सहासाः-सविकासा नमेरवो-देववृक्षविशेषा यस्ते तथा। पुन: कथं०१ 'स्लपितोल्लसत्सकलधौतसहासनमेरवः' उल्लसन-शोभमानः सकलधौतः कलधौत-सुवर्ण तेन सह वर्तमानः सहासनेन-स्नानपीठेन असनैः-वृक्षविशेषैर्वा सह वर्तमान एवंविधो यो पेरु:-मेरुपर्वतः, ततः स्नपित:-स्तानं कारित उल्लसत्सकलधौतसहासनमेरुयैस्ते तथा । यदिवा उल्लसत्मकलधौनं सई-क्षमं दृढमित्यर्थः, एतादृशमासनं यत्र स उल्लसत्सकलधौतसहासन एवंविधो मेरुः स्वपितो यैस्ते तथा ॥
अथ समासः--सकलाश्च ते चौताच सकलधौताः 'कर्मधारयः ।। सह हासेन वर्तन्त इति सहासतः ' तत्पुरुषः' । सहासाश्च ते नमेरका सहा० 'कर्मधारयः । सकलधौताः सहासनमेरवो यैस्ते सकल० 'बहुव्रीहिः' । जलाना प्लवा जलप्लवा: 'तत्पुरुषः' । अभिषेकस्य जलप्ळवा अभिषेकजलप्लवाः ' तत्पुरुषः । सह कलधौतेन वर्तत इति सकल.' तत्पुरुषः'। उल्लसंश्चासौ सकलधौतश्च उल्लस० 'कर्मधारयः' । सह आसनेन आसनेर्वा वर्तत इति सहासनः 'तत्पुरुषः । सहासनश्चासौ मेरुश्च सहा. 'कर्मधारयः ।। उल्लसत्सकलधौतश्चासौ सहासनमेरुश्व उल्लसत्सकल० 'कर्मधारयः ।। स्नपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्लपितोल्लस. 'बहुजीदिः । अथवा उल्लसच जान सकलधौतं च उल्लम 'कर्मधारमः'।सहं च तदामनं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org