________________
स्तुतिचतुविशतिका
[१३ श्रीविमल
" अक्षो बिमीतके कर्षे, रावणे शकटात्मनोः ।
पाशके मणिके चाक्षः, इन्द्रिये खण्डमोक्षयोः ॥" इत्यनेकार्थतिलके । इति चतुर्थवृत्तार्थः ॥ ४॥
श्रीविमलजिनेन्द्रस्य, स्तुतेरर्थो लिबीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना॥
इति त्रयोदशविमलजिनस्तुतिः ॥ ४॥१॥५२॥ दे०व्या०-प्रभाजीति । रोहिणी देवी मयि-मद्विषये हितं-पश्यं तनुतां-विस्तारयतां इत्यन्वयः। 'तनु विस्तारे धातः । 'तनुताम्। इति क्रियापदम् । का कर्जी? | रोहिणी । किं कर्मतापन्नम् ? हितम् । कथम्।। अलम्-अत्यर्थम् । कस्मिन् । माये। किंविशिष्टे मयि । प्रभाजि-प्रकर्षेण भजमाने । पुनः किंविशिष्टे । 'क्षमाले'क्षमा लाति-ग्रहाति इति क्षमालः तस्मिन् । किंविशिष्टं हितम् ? । अमलम्-अनवयम् । पुनः किंविशिष्टम्। परं-प्रकृष्टम् । पुनः किंविशिष्टम् । इहितं-वाञ्छितम् । किविशिष्टा रोहिणी। अचापलाचापल्यराहिता । पुनः किंविशिष्टा ? | 'सुधावसु सुधा-अमृतं तद् वसुः-प्रभा यस्याः सा तथा । पुनः किंदिशिष्टा।'अभीमना अभी:-निर्भयं मनो-मानसं यस्याः सा । पुनः किंविशिष्टा ? । 'सभाक्षमाला' भयाकान्त्या सह वर्तमाना अक्षमाला यस्याः सा । पुनः किंविशिष्टा ? । 'प्रभाजितनुता' प्रभया-तेजसा जिता: पराभूताः तैः नुता-स्तुता कथम् । अलम् । पुनः किविशिष्टा ? । 'परमचापला' परमम्-उत्कृष्टं चापंधनुः लाति-महातीति तथा। "धनुश्वापोऽनमिष्वासः" इत्यभिधानचिन्तामाणिः (का०३, श्लो०४३९)। पुनः किंविशिष्टा ? । आरोहिणी-आरोहणशीला । काम् ? । 'सुधावसुरभी' सुधावा-सुवेगा या सुरभी-गौः ताम् । पुनः किंविशिष्टा?'अनामावसभा'न वियते आमयो-रुग् यस्यों एवंविधा सभा-पर्षत् यस्याः सा तथा ॥ इति चतुर्थवृत्तार्थः ॥ ४ ॥ पृथ्वीच्छन्दः ॥ “यतिर्वसुकृता जसौ जसयलाच पृथ्वी गुरुः” इति च तलक्षणम् ॥
KE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org