________________
जिनस्तुतयः] स्तुतिचतुनिशतिका
१५१ पुनः कथंभूता ? । 'प्रभाजितनुता' प्रमया-तेजसा जितैः-तिरस्कृतैः नुता-स्तुता । "स्तवः स्तोत्रं स्तुतिर्नुतिः" इति हैमः ( का० २, श्लो० १८३)। पुनः कथंभूता । परमचापला ' परम-प्रकृष्टं च तत् चापं-धनुः लातिगृह्णातीति परमचापला । पुनः कथंभूता ? | ‘आरोहिणी' अवश्यमारोक्ष्यतीत्यारोहिणी । अयमावश्यके णिनिः । 'अन्नेम्यो डीप' (पा० अ० ४, पा० १, सू० ५) इति डीप् । काम् ! । 'सुधावसुरमी' धावनं धावःवंगः सुष्टु-शोभनो वेगो यस्याः सा सुधावा, 'सृ गती' इत्यस्य धावादेशः, सा चासौ सुरभी-गौस्ताम् । पुनः कथंभूता? । 'अनामयिसभा' आमयो-रोगः सोऽस्या अस्तीति आमयिनी, न आमयिनी-निरोगिणी सभा-संसत् यस्याः सा । 'मोत्रियोरुपसर्जनस्य । (पा० अ० १, पा० २, स. ४८) इति हस्यः । “ आम आमय भाकल्यम्" इति हैम: (का० १, श्लो. १२७) पृथ्वीच्छन्दः । “ यतिर्वसुकृता नसौ जसयलाश्च पृथ्वी गुरुः" इति तल्लक्षणम् ॥ ४ ॥
॥ इति महोपाध्याय विमलस्तुतिवृत्तिः ॥ १३ ॥ सौ० वृ०-प्रभाजीति।रोहिणीनाम्नी देवी मयि अस्मिन् (म!)विषये ईहित-पाञ्छित अमलंअनवद्यं हितं-पथ्यं तनुतामित्यन्वयः। 'तनुताम्' इति कियापदम् । का की? । 'रोहिणी' येथी। 'तमुतां' विस्तारयतु । किं कर्मतापन्नम् ? । 'ईहितम् ।। कस्मिन् ! । 'मयि' । कथम् ! । 'अलं' अत्यर्थय। किंवि० ईहितम् । 'अमलम् । पुनः किं० ईहितम् ? । 'परं' प्रकृष्टं प्रधान वा । पुमः किं० ईहितम् । 'हित ' हितकृत् । किंविशिष्टे मयि ? | प्रकर्षण मजतीति प्रभाक् तस्मिन् 'प्रभाजि', सीपवार्तिनीत्यर्थः। पुनःकिं० माय । क्षमा लातीति क्षमालस्तस्मिन् 'क्षमाले' उपशमयति । किंवि० रोहिणी प्रथया-काम्त्या जिता ये अमराःतैः नुता-स्तुता 'प्रभाजितनुता' । पुनः किं० रोहिणी ? । 'अचापला' चापल्यरहिता। पुनःकिं० रोहिणी ? । परम-प्रधानं चापं-धनुः लाति-गृह्णाति इति परमचापला'। पुनः किं० रोहिणी ? । सुधाप्रसादलपद्रव्यम् । “छो' इति भाषायाम्, तद्वद् वसुः-तेजो यस्याः सा 'सुधावसुः” गौरवर्णा इत्यर्थः । यद्वा सुधा-अमृतं तदेव वसु-द्रव्यं यस्याः सा 'सुधावसुः । पुनः किं० रोहिणी । नास्ति भी:-भयं मनसि यस्याः (सा) 'अभामनाः'। पुनः० किं० राहिणी ?।'आरोहिणी' आरूढा । कां कमेतापनाम् ।। सुशोभनो धाव:-वेगो यस्याः सा तादृशी सुरभी-धेनु : 'सुधावसुरभीम् । पुनः किं० रोहिणी? । भारोगो नास्तीति अनामयी, अनामयी सभा यस्याः सा 'अनामयिसभा' । पुनः किं० रोहिणी । माकान्तिस्तया सहिता अक्षमाला-जाप्यमाला यस्याः सा ‘सभाक्षमाला' । एतादृशी रोहिणी देवी माय विषये ईहितं तनुताम् । इति पदार्थः ॥
अथ समासः-प्रकर्षेण भजते इति प्रभाक, तस्मिन् प्रभाजि। चपलस्य भावः चापलम्, न विद्यते चापलं यस्याः सा अचापला । सुधावद् वसुर्यस्वाःसा सुधावसुः, यद्वा सुधा एव वसु यस्याः सा सुधावसुः । न विद्यते भी:-भयं मनास यस्याः सा अभीमनाः । भया-कान्त्या सहिता सभा, (सभा) अक्षमाला यस्याःसासभाक्षमाला। प्रभया लिताःप्रभाजिताः, प्रभाजितैःनुता प्रभाजितनुता । न विद्यते मलो यस्मिन् तत् अमलम् । परमश्चासौ चापश्च परमचापः, परमचापं लातीति पर मचापला । आरुबते सा आरोहिणी ।सु-शोभनो धावो-वेगो यस्याः सा सुधावा, सुधावा चासौ सुरभी च सुधावसुरभी, तो सुधावसुरीम् । नास्ति आमयो-रोगो यस्यां सा अनामयिनी, अनामयिनी सभा यस्यां( स्याः) सा अनामयिसभा। क्षमा लातीति क्षमालः, तस्मिन क्षमाले ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org