________________
स्तुतिचतुर्विशतिका
[१३ श्रीविमलतथा । पुनः कयं० १ . प्रभाजितनुता ' प्रभाजितैः-तेजस्तिरस्कृतैः भुता-स्तुता । पुनः कयं० १ 'परमचापला ' परम-प्रधानं चाप-धनुः लातीति तथा । पुनः कयं० १ ' आरोहिणी'। अर्थ आवश्यके णिनिः। कां कर्मतापन्नाम् ? 'सुधावसुरभी । धावनं धावो-वेगा, शोभनो घावो यस्याः सा सुधावा या सुरभी-गौस्ताम् । णिनिसम्बन्धादा । न निष्ठादिषु । इति षष्ठीप्रतिषेधः । पुनः कयं० १ ' अनामयिसभा ' अनामयिनी-अरोगिणी सभा-संसद् यस्याः सा तथा ।।
अथ समास:--चपलस्य भावः चापलं ' तत्पुरुषः । न विद्यते चापलं यस्याः सा अचापला 'बहुव्रीहिः ।। सुधावद् वसुर्यस्याः सा सुधावसुः 'बहुव्रीहिः ।। अथवा सुधैव बसु यस्याः सा सुधावसुः 'बहुव्रीहिः'। भीः मनसि यस्याः सा भीमनाः 'बहुव्रीहिः'। न भीमनाः अभीमनाः ' तत्पुरुषः । सह भया वर्तत इति सभा ' तत्पुरुषः । सभा अक्षमाला यस्याः सा सभा० 'बहुव्रीहिः'। प्रभया जिताः प्रभाजिताः 'तत्पुरुषः । प्रभाजितर्नुता प्रभाजि० ' तत्पुरुषः ।। न विद्यते मलो यत्र तदमलं ' बहुव्रीहिः ।। परमं च तत् चापं च परमचापं ' कर्मधारयः ।। परमचापं लातीति परम० 'तत्पुरुषः । शोभनो धावो यस्याः सा सुधावा बहुवीहिः ।। सुधावा चासौ सुरभी च सुधा० 'कर्मधारयः ।। तां सुधाव । आमयोऽस्या अस्तीति आमयिनी ('बहुव्रीहिः') । न आमयिनी अनामयिनी तत्पुरुषः' । अनामयिनी सभा यस्याः सा अनामयिसभा 'बहुव्रीहिः । क्षमो लाताति क्षमाल'तत्पुरुषः । तस्मिन् क्षमाले ॥ इति काव्यार्थः॥४॥
॥ इति श्रीशोभनस्तुतिवृतौ श्रीविमलजिनेश्वरस्तुतेाख्या ॥ १३ ॥ सि० वृ०-माजीति । रोहिणी-रोहिणीनाम्नी देवी मयि-मद्विषये अलम्-अत्यर्थ परं-प्रकृष्टम् अमलम्-अनवद्यम् ईहितं-वाल्छितं हित-सुखाद्यनुकुल वस्तु तनुतां-विस्तारयत्वित्यर्थः । तनु विस्तारे' धातोः 'आशीःप्रेरणयोः' (सा० सू० ७०३) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् अग्रेताम् 'तनादेरुप्' (सा. सू० ९९७) अपोपवादः । 'स्वरहीनं०'(सा० स० ११)। तथाच 'तनुताम्' इति सिद्धम् । अत्र 'तनुवाम ' इति क्रियापदम् । का की ? । रोहिणी। रोहन्ति कार्याण्यस्यामिति रोहिणी । रुहेरिनन् । 'गौरादिकात् स । किं कर्मतापन्नम् ? । हितम् । कथंभूतं हितम् । परन् । पुनः कथं० । अमलम् । कथम् । अलम् । कस्मिन् ! । मयि । कथंभूते मयि ।' प्रमानि ' प्रकर्षेण पबते-सेक्त इति प्रभाक्, तस्मिन् प्रमानि, अनवरत सेवातत्पर इत्यर्थः । पुनः कथंभूते ? । 'क्षमाले' क्षमा-शान्तिस्ता लाति-गृह्णातीति क्षमालस्तस्मिन् । कधभता रोहिणी । अचापला' चाफ्लं-चपलत्वं न विद्यते यस्या यस्माद् वा सा तथा। पुनः कयंमा। 'सुधाक्सः ' सुधा-प्रासादादीनां लेपनद्रव्यं छोह इति प्रसिद्धा तदिव वसुः-तेजो यस्याः सा तया । अथवा सुष-पीयूषं सैव वसु-द्रव्यं यस्याः सा तथेत्यर्थः । पुनः कथंभूता: । 'अमीमनाः' न मी:-मयं मनसि यस्याः सा तथा । पुनः कथं० । 'समाक्षमाला' मा-प्रमा तया सह वर्तमाना सभा, एतादृशी अक्षमाला यस्याः सा।
मौरादिभ्यो मुख्यान ह' इति सिद्धहेमे ( २।४।१९) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org