________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
दे०व्या०–सदेति । अहो इत्याश्चर्ये । यतिगुरोः - जिनवरस्य मतं प्रवचनं यूयं भावतः - भक्तितः नमत- प्रणमत इत्यन्वयः । 'णम प्रह्वीभावे' धातुः । 'नमत' इति क्रियापदम् । के कर्तारः । यूयम् । किं कर्मता पद्मस् | मतम् । मतं कस्य ? | 'यतिगुरोः' यतीनां गुरुः यतिगुरुः इति विग्रहः, तस्य । कस्मात् १ । भावतः । किंविशिष्टा यूयम् ? | ' आयताः ' आ-समन्तात् यताः - यत्नं कुर्वाणाः । किंविशिष्टस्य ' यतिगुरोः ! | 'आयताभावतः ' आयता विपुला भा-कान्तिर्यस्य स तस्य । अस्त्यर्थे वतुप्प्रत्ययः । किंविशिष्टं मतम् ? । अञ्चितं - पूजितम् । कै: ? । मानवैः - मनुष्यैः । पुनः किंविशिष्टम् ? । वरदं - वाञ्छितप्रदम् । पुनः किंविशिष्टम् ! | रहितं वर्जितम् । केन ? । एनसा- पापेन । " एनः पाप्मा च पातकम् ” इत्यभिधानचिन्तामणि: (का० ६, श्लो० १६ ) । पुनः किंविशिष्टम् ? । 'सदायति' सती-शोभना आयतिः - उत्तरकालो यस्य तत् । " आयतिस्तुत्तरः कालः" इत्याभिधानचिन्तामणिः (का० २, श्लो० ७६) । भगवत्प्रवचनस्य कदापि केनापि खण्डायतुमशक्यत्वात् । "आयतिः प्रभुता" इति प्राञ्चः । पुनः किंविशिष्टम् ? । रहः- रहस्यभूतम् । कस्य ? । गुरो:अर्हत इत्यर्थः । पुनः किंविशिष्टम् ? । 'न मतमानवैरम्' मानश्च वैरं चेति पूर्वं 'द्वन्द्वः", ततो न मते - नाभिप्रेते मानवैरे - गर्वविरोधी यस्य इति विग्रहः । पुमः किं विशिष्टम् १। चितं व्याप्तम् । केन ? । वरदमेन - प्रधानोपशमेन । वरश्वासौ दमश्वेति समासः । उपशमस्यैवात्र प्रधानत्वेन ख्यापनात् । पुनः किंविशिष्टम् ? । 'सारहितं' सारं - प्रधानं हितं-पथ्यं यस्मिन् तत् । पुनः किंविशिष्टम् ? । मतं- वाञ्छितम् । सतामिति शेषः ॥ इति तृतीयवृत्तार्थः ॥ ३॥
श्री रोहिण्यै विनतिः
प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं परमचापलाऽऽरोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ ४ ॥
- पृथ्वी
Jain Education International
ज० वि० – प्रभाजीति । रोहिणी - रोहिण्याख्या देवी मयि-मद्विषये अलम् - अत्यर्थ परंप्रकृष्टम् अमलम्-अनवद्यम् ईहितं - वाञ्छितं हितं -सुखानुकूलं वस्तु तनुतां विस्तारयतु इति क्रियाकारक योजना | अत्र ' तनुताम् ' इति क्रियापदम् । का कर्त्री ? 'रोहिणी' । किं कर्मतापन्नम् १ ‘हितम्” । कथं० ? ‘परं’ पुनः कथं० ? 'अमलं' गतमलम् । कथम् ? 'अलम्' । कस्मिन् ? 'मयि' । कथंभूते मयि ? 'प्रभाजि' प्रकर्षेण भजते- सेवत इति प्रभाक् तस्मिन् अत्यन्त सेवावर्तिनीत्यर्थः । पुनः कथंभूते ? ' क्षमाले ' क्षमा- क्षान्तिस्तां लातीति क्षमालस्तस्मिन् । रोहिणी कथंभूता ?' अचापला' चापलंचपलत्वं न विद्यते यस्याः सा तथा । पुनः कथं० ? ' सुधावसुः ' सुधा - प्रासादादीनां केपद्रव्यं छोहेति प्रसिद्धा तद्वद् वसुः - तेजो यस्याः सा तथा, अथवा सुधा-पीयूषं सैव वसु-द्रव्यं यस्याः सा तथा । पुन कथं ० १ अभीमनाः ' न भी:- भयं मनसि यस्याः सा तथा । पुनः कथं० ? ' सभाक्षमाला ' भा-प्रभा तया सह वर्तमाना सभा, एतादृशी अक्षमाला यस्याः सा
"
C
१४
For Private & Personal Use Only
www.jainelibrary.org