________________
१४८ स्तुतिचतुर्विशतिका
[१३ श्रीविमलसि. वृ०-सदेति । अहो इत्यामन्त्रणे । हे भव्याः ! यूयं यतिगुरोः-अर्हतः मतं-शासनं सदा-सर्वकालं भावतः-भक्तितः अनुरागतो वा नमत-प्रणमतेत्यर्थः । ‘णम प्रह्वीमावे' धातोः 'आशी:प्रेरणयोः' (सा० स० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं णम् अग्रे त । आदेः यः स्नः' (सा० सू० ७४८) इति णस्य नकारः । ' अप् कर्तरि ' (सा० सू० ६९१) इत्यप् । ' स्वरहीनं०' (सा. सू० ३६ )। तथाच 'नमत' इति सिद्धम् । अत्र ' नमत' इति क्रियापदम् । के कर्तारः ।। ययम् । किं कर्मतापन्नम् ! । मतम् । कस्य ? । यतिगुरोः' यतीनां-साधूनां गृणाति धर्मोपदेशं यथार्थोपदेष्टा वा यतिगुरुः, तस्य यतिगुरोः । कथम् ? । सदा। कुतः ।' भावतः' भावादिति भावतः सार्वविभक्तिकस्तस् । कथंभूतं मतम् ।।
ञ्चितं--पूजितम् । 'नश्चेिः पूनायां ' (सा० सू० २८७ ) इति नकारस्य लोपः। कैः कर्तृभिः ! । मानवैःमनुष्यैः । पुनः कथंभूतम् ! । 'वरदं ' वर-वाञ्छितं ददातीति वरदम् । पुनः कथंमतम् ! । रहितं-वर्जितम् । केन? । एनसा-पापेन । पुनःकथंभूतम्। 'सदायति' सती-शोभना आयतिः-प्रभावः उत्तरकालो वा यस्य तत् तथा। "आयतिस्तूत्तरः कालः" (अभि० का० २, श्लो० ७६), "स्यात् प्रभावेऽपि चायतिः" इत्यमरः । पुनः कथंमतम् ।। रहः-रहस्यभूतं तत्त्वमितियावत् । “ रहोऽपि गुह्ये मवने च तत्त्वे" इति विश्वः। पुनः कथंभूतम् ।।' न मतमानवैरं' न इति निषेधवाचकम्, तेन न मते-न अभिप्रेते मानवैरे-अहङ्कारविरोधौ यस्य तत्। मानं च वैरं च मानवैरे इतरेतरद्वन्द्वः । “वैरं विरोधो विद्वेषः " इत्यमरः (श्लो० ४११)। पुनः कथंभूतम् । चितं-व्याप्तम् । केन । 'परदमेन' वर:-प्रधानो यो दमो-दमनं तेन । वरदमेन किं कुर्वता ! । आयता-आगच्छता । पुनः कथंभूतम् । 'सारहितं' सारं हितं यस्मिन् तत्, सारं च तद्धितं चेति वा । कथंभूतस्य यतिगुरोः ! । 'आयतामावतः' आयता-विस्तारिणी आभा-छाया सा विद्यते यस्य स आयताभावान् तस्य । पुनः कथम्भूतस्य ? । गुरोः-महतः ॥३॥ ___ सौ० वृ०-सदेति । अहो इत्यामन्त्रणे । भो भव्याः ! यूयं यतीनां-साधूनां गुरु:-धर्मोपदेष्टा तस्य यतिगुरोः-तीर्थकृतः मतं-शासनं प्रवचनं वा सदा-सर्वदा भावतो-रागतः भक्तितो वा नमत इत्यन्वयः।'नमत' इति क्रियापदम् । के कतोरः ।'यूयं' भवन्तः।'नमत' प्रणमत । किं कर्मतापत्रम् । 'मतम्' । कथम् । । 'सदा सर्वदा । किंवि० मतम् ? । 'अञ्चितं' पूजितम् । कैः ? । मानवैः' मनुष्यैः । पुनः किं० मतम् । 'वरदं इष्टवरदम्-इष्टवरदायकम् । पुनः किं० मतम् ? । 'रहितं' विरहितम् । केन ? 'एनसा' पापेन । किविशिष्टस्य यतिगुरोः १ । आयता-महती या आभा-शोभा तद्वान् आयताभावान् तस्य 'आयताभावतः'। पुनः किं० मतम् ? । सत्-शोभना आयतिः-उत्तरकालः पूजापप्तिर्वा यस्य तत् 'सदायति' । पुनः किं० मतम् ? । 'रहः' रहस्यभूतम् । कस्य । 'गुरोः' पूज्यस्य । पुनः किं० मतम् ? । मतं-संमतं मानं च वैरं च यस्य तत् 'मतमानवरैम्' । कथम् ? ।'न' निषेधे। रागद्वेषरहितमित्यर्थः । पुनः किं० मतम् । 'चितं' व्याप्तम् । केन ? । वरः-प्रधानो दमः-इन्द्रियविषयमलक्षणः तेन 'वरदमेन' । वरदमेन किंविशिष्टेन ? । 'आयता' विस्तीर्णेन । पुनः किं० मतम् ? । सारं-प्रधानं हितं यस्मिन् तत् 'साहितम् ।। इति पदार्थः॥
अथ समासः यतीनां गुरुः यतिगुरुः, तस्य यतिगुरोः । वरं ददातीति वरदः, तं वरदम् । आयता भा यस्यासौ आयताभावान्, तस्य आयताभावतः। सती-शोभना आयतिः यस्य तत् सदायति । गृणाति-वदति तत्त्वं-हिताहितम् इति गुरुः, तस्य गुरोः । मानं च वैरं च मानवैरे, मते मानवैरे यस्य तत् मतमानवैरम् । वरश्चासौ दमश्च वरदमः, तेन वरदमेन । सारं च तत् हितं च सारहितम्, यद्वा सारं हितं यस्मिन् तत् सारहितम् । एवंविधं जिनमतं नमत ॥ इति तृतीयवृत्तार्थः ॥३॥
१ इदं सूत्रं पाणिनीयेऽपि । २ अयं भ्रान्तिजन्योऽर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org