________________
जिनस्तुतयः ]
जिन प्रवचनप्रणाम:
स्तुतिचतुर्विंशतिका
सदा यतिगुरोरहो ! नमत मानवैरश्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं
मतं वरदमेन सारहितमायता भावतः ॥ ३ ॥ - पृथ्वी
Jain Education International
"
नमत '
4
ज० वि० -- सदेति । ' अहे। ' इत्यामन्त्रणे । भो भव्याः । यूयं ' यतिगुरोः ' यतीनां - साधून गुरुः- तत्वोपदेष्टा तस्य यतिगुरोः अर्हत इत्यर्थः, मर्त-शासनं सदा-सर्व [दा] कालं भावत: - भक्तितः अनुरागतो वा नमत- प्रणमत इति क्रियाकारकयोजना । अत्र इति क्रियापदम् | के कर्तारः ? ' यूयम् ' । किं कर्मतापन्नम् ? ' मतम् । कस्य ? ' यतिगुरो:' । कथम् ? ' सदा' । कुत: ? भावत: ' । मर्त कथंभूतम् ? ' अमितं ' पूजितम् । कैः कर्तृभिः ? ' मानवैः' नरैः । पुनः कथं ० १' वरदं ' अभीष्टप्रदम् । पुनः कथं० १ " रहिर्त ' त्यक्तम् । केन C एनसा 'पापेन । पुनः कथं० १' सदायति' सती - शोभना आयतिः - प्रभुता उत्तरकालो वा यस्य तत् तथा । पुन कथं ० १ 'रहः' रहस्यभूतम् । पुनः कथं० १ ' न मतमानवैरं ' मते - अभिप्रेते मानवैरे - अहङ्कारविरोधौ यस्य तद् मतमानवैरम्, इति निषेधे, तादृक् न भवतीति भावः । पुनः कथं० ? ' चितं व्याप्तं सम्बद्धं वा । केन ? ' वरदमेन ' प्रधानप्रशमेन । किं कुर्वता ? ' आयता ' गच्छता । पुनः कथं० १' सार हितं' सारं च तत् हितं च तत्, यद्वा सारं हितं यस्मिन् तत् तथा । यतिगुरोः कथंभूतस्य ? 'आयताभावतः ' आयता- विस्तारिणी आमा-छाया सा विद्यते यस्व स आवताभावान् तस्य । पुनः कथंभूतस्य ? ' गुरो: ' महवः ||
न
"
१४७
अथ समासः - यतीनां यतिनां वा गुरुः यतिगुरुः ' तत्पुरुषः' । तस्य यति० । वरं ददातीति वरदं ' तत्पुरुषः ' । तत् वरदम् । आयता चासौ आभा च आयतामा 'कर्मधारयः ' आयताभा वर्तते यस्य स आय० । तस्य आयता० । सती आयतिर्यस्य तत् सदायति 'बहुव्रीहिः' । तत् सदा० । मानं च वैरं च मानवैरे 'इतरेतरद्वन्द्वः' । मते मानवैरे यस्य तत् मत० ' बहुव्रीहि: ' । तत् मत० । वरश्वासौ दमश्च वरदमः ' कर्मधारयः ' । तेन वर० । सारं च तस् हितं च सारहितं 'कर्मधारयः । यद्वा सारं हितं यस्मिन् तत् सार ० बहुव्रीहिः । तत् सार० ॥ इति काव्यार्थः ॥ ३ ॥
6
,
For Private & Personal Use Only
www.jainelibrary.org