________________
जिमस्तुतयः]
स्तुतिचतुर्विशतिका
१४॥
सौ० वृ०-यो वासवानां पूज्यो भवति स विगतमलो भवति । अनेन संबन्धेनायातस्य प्रयोदशश्रीविमलजिनस्य स्तुतिव्याख्यानं व्याख्यायते-अपापदमलमिति।
वयं विमलनामानं त्रयोदशं जिनं आनमाम इत्यन्वयः । 'आनमामः' इति क्रियापदम् । के कारः। 'वयम्'।'आनमामः' प्रणमामः । कं कर्मतापनम् ? । 'विमलं' विमलजिनम् । किंवि० विमलम्? | 'अपापदं' न पापदायकम् । धर्मदातारमित्यर्थः । यद्वा अपापः-पवित्रः दमः-इन्द्रियनोइन्द्रियादिजयो यस्य सः अपापदमः तं 'अपापदमम्' । कथम् ? । 'अलं' अत्यर्थम् । पुनः किं० विमलम् । 'घनं' सान्द्र निबिडितं (ड) निश्छिद्रम् । पुनः किं० विमलम् ? । शं-सुखं इतं-प्राप्तं 'शमितम् । पुनः किं० विमलम् । 'हितं' लोकस्य हितकारिणम् । पुनः किं० विमलम् ? । नता:-प्रणता ये अमरा-देवास्तेषां सभा-पर्षत् तादृशास्तथा (?) असुरा-नाग(असुर ?)कुमारादयस्तैभासुर-देदीप्यमानं तं 'नतामरसभासुरम्' । पुनः किं० विमलम् ? । 'अपापदं' अपगतापदं-गतविपदम् । यद्वा अपापो-निर्मलो यमः तं लाति-गृहातीति अपापदमलम् । पुनः किं० विमलम् । 'अलङ्घनं' अनुल्लड़नीयवचनम् । पुनः किं० विमलम् ?। 'शमितमानं' गताहकारम् । पुनः किं० विमलम् ? । आ-समन्तात् मोहितं आमोहितं । कथम् ? । 'न' निषेधे । अमोहितमित्यर्थः । पुनः किं० विमलम् । तामरसं-महोत्पलं तद्वद् भासुरः-देदीप्यमानः तं 'तामरसभासुरम् । पुनः किं० विमलम् । विमला-निर्मला या माला-पुष्पत्रकू तया विमलमालया आमोदितं-सुरभीकृतम् । पुनः किं० विमलम् । आलयं-गृहं तेन अमोदितः-न मोदं गतः तं 'आलयामोदितम् । एवंविधं विमलं प्रणमामः। इति पदार्थः॥
अथ समासः-पापं ददातीति पापदः, न पापदः अपापदः, तं अपापदम् । यद्वा न विद्यते पापं यस्मिन् सः अपापः। अपापो दमो यस्य सः अपापदमः तं अपापदमम् । लभ्यते-उलयते-अधःक्रियते इति लड़नम्, नास्ति लङ्घनं यस्य सः अलङ्कनः, तं अलङ्कनम् । शं-सुखं इतः-प्राप्तः शमितः, तं शमितम् । यद्वा शमः-उपशमः सञ्जातो यस्य स शमितः, तं शमितम् । अमराणां सभा अमरसभा, अमरसभा च असुराश्च अमरसभासुराः, नता अमरसभासुरा यस्य स नतामरसभासुरः, तं नतामरसभासुरम् । विगतो मला यस्य स विमलः, तं विमलम् । आलयैः-गृहै: गृहाणां वा न मोदितः आल०, तं आलयामोदितम् । नास्ति गृहममकार इत्यर्थः। अपगताः आपदो यस्य स अपापदः, तं अपापदम् । शमित:-क्षयं नीतो मान:-अहङ्कारो येन स शमितमानः, तं शमितमानम् । आ-समन्तात् मोहितः आमोहितः, तं आमोहितम् । कथम् ? । 'न' निषेधे । विमला चासौ माला च विमलमाला, तया विमलमालया। तामरसव भासुरः तामरसभासुरः, तं तामरसभासुरम् । मोहः संजातोऽस्य इति मोहितः, न मोहितः अमोहितः, तं अमोहितम् । इति प्रथमवृत्तार्थः॥१॥पृथ्वीच्छन्दसा स्तुतिरियम् अर्धपादयमकेन।
दे०व्या०-अपापदमलमिति । विमलं-विमलनाथं वयं अलं-अत्यर्थं यथा स्यात् तथा आनमामः इत्यन्वयः।'णम प्रहवीमावे' धातुः। 'आनमामः । इति क्रियापदम् । के कर्तारः। वयम् । के कर्मतापनम् । विमलम् । किंविशिष्टं बिमलम् ? । 'अपापदम् ' न पापं ददातीत्यपापदः तम् । अपापः-पापरहितो यो दमस्तं लाति ग्रह्णातीत्यपापदमलः तं इति एकपदमेव वा । पुनः किंविशिष्टम् ? । 'शमितम् श-सखं (उतं-) प्राप्तं येन स तम् । पुनः किंविशिष्टम् ? । हितं-हितकारकम् , मोक्षमार्गप्रदर्शनात । पुनः किंविशि. टम् । 'नतामरसभासुरम् ' नता-प्रह्वीभूता अमरसभा-देवपर्षत् असुरा-भुवनपतयश्च यस्य स तम् अथवा नता-नम्रीभूता अमरा-देवाः (सभा-भासहिताः) असुराश्च यस्य स तम् । पुनः किंविशिष्टम् ।। मोदितं-सुरभीकृतम् । कया? । 'विमलमालया' विमला-निर्मला या माला-पुष्पस्रक तया। पुनः किंविशिष्टम् ? । 'अपापदम् ' । अपगता आपद्-विपत्तिर्यस्य स तम् । पुनः किंविशिष्टम् । 'अलङनम् । नातिक्रमणीयं, सर्वेषामपि पूज्यत्वात् । पुनः किंविशिष्टम् ? । 'शमितमानम् । शमितः-शान्ति नीता मानःस्मयो येन स तम् । पुनः किंविशिष्टम् । 'नामोहितम् ' मोहेन आ-समन्तान वशीकृतम् । पुनः किंविशि. टम्।।' तामरसभासुरम् ' तामरसं-कमलं तद्वद् भासुरं-दीप्तम् । पुनः किंविशिष्टम् । 'आलयामोदितम्' आलये-गृहे अमोदितं-अहर्षितम् ॥ इति प्रथमवृत्तार्थः ॥१॥
-
१ अयमों विचारणीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org