________________
१४२ स्तुतिचतुविशतिका
[११ श्रीविम 'बहुव्रीहिः' । तं नतामर० । यदिवा सह भाभिः वर्तन्ते ये ते सभाः 'तत्पुरुषः' । सभाश्च ते असुराश्च सभासुराः 'कर्मधारयः' । अमराश्च सभासुराश्च अमर० 'इतरेतरद्वन्दुः । नवा अमरसभासुरा यस्य स नताम० 'बहुव्रीहिः' । तं नतामर । विमला चासो माला प विमः लमाला 'कर्मधारयः' । तया विमल । अपगता आपदो यस्मात् स: अपापद् 'बहुव्रीहिः ' तमपापदम् । न विद्यते लड्नं यस्य सोऽलङ्घनः ' बहुव्रीहिः'। तं अलहनम् । शमितो मानो येन स शमितमानः 'बहुव्रीहिः'। तं शमि० ।तामरसवद् भासुरस्ताम० ' तत्पुरुषः' । तं ताम। न मोदितः अमोदितः तत्पुरुषः । आलयैरमोदितः आलया । यद्वा आलये अमोदित भाण्यामोदितः, उभयथाऽपि तत्पुरुषः ' । तं आलया० ॥ इति काव्यार्थः ॥ १॥
सि० वृ०-अपापदमलामिति । विमलानि ज्ञानानि अस्य विमलः, विगतो मल:-पापं अस्येति वा विमलः । “ मलं किट्टे पुरीषे च, पापे च कृपणे मलः" इति विश्वः । गर्मस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति वा विमलः, तं विमलं-विमलनामानमर्हन्तं वयं आनमामः--प्रणमाम इत्यर्थः । आपूर्वक । णम प्रहीमावे ' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषबहुवचनं मस् । ' अप् कर्तरि ' (सा० स० १९१) इत्यप् । ' मोरा ' ( सा० स० १९६ ) इत्यात्वम् । सोर्विसर्गः । (सा० स० १२४)। तथाच ' आनमामः' इति सिद्धम् । अत्र ' आनमामः ' इति क्रियापदम् । के कर्तारः । वयम् । के कर्मतापन्नम् ? । विमलम् । कथंभूतं विमलम् ! । ' अपापदं ' न पापं ददातीत्यपापदस्तम् । कथम् ? । अलम्-अत्यर्थम् । “ अलं भूषणपर्याप्ति-वारणेषु निरर्थके। अलं शक्तौ च निर्दिष्टं ” इति विश्वः । यद्वा अपापदमलमित्यक्षतमेव विशेषणम् । तथाच अपापः-निष्पको यो दमः- उपशमः तं लाति-गृह्णातीति अपापदमलस्तं अपापदमलमित्यर्थः । पुनः कथंभूतम् ? । इत-प्राप्तम् । किम् ?। शं-सुखम् । "शं सुखेऽपि च कल्याणे " इति विश्वः । कथंभूतं शम् ? । घनं-निरन्तरम्, निखिलकर्मक्षयोत्थमित्यर्थः । “धनो मेधे मूर्तिगुणे, त्रिषु मूर्ते निरन्तरे” इत्यमरः ( ? ) । पुनः कथंभूतं विमलम् ? । हितं-हितकारकम् । 'दधतेर्हिः' ( सा० सू० १३०५)। पुनः कथंभूतम् ? । 'नतामरसमासुरं' नता-नम्रीभूता अमरसमा अमराणां-देवानां सभा-पर्षत् असुराः-भुवनपतिदेवविशेषाश्च यस्य, यद्वा अमराः-देवाः सभा:-भासहिताः असुराश्च यस्य स तथा तम् । पुनः कथंभूतम् ? । आमोदितं-सुरभीकृतम् । कया ? । 'विमलमालया' विमला-विगतमला माला-स्रक तया । पुनः कथंभूतम् ।' अपापदं' अपगता आपदो यस्मात् स तथा तम् । पुनः कथंभूतम् ? । ' अलङ्घनं । न विद्यते लङ्घनं-अधःकरणं कुतोऽपि यस्य स तथा तम् । पुनः कथंभूतम् ?। 'शमितमान' शमितः - शमं -क्षयं नीतः मानः- अभिमानो येन स तम् । पुनः कथं० ?। 'नामोहित' आ-समन्तात् मोहितम् । नेति निषेवपदम् । पुनः कथंभूतम् ? । 'तामरसमासुरं' तामरसं-कुशेशयं तद्वद् भासुरं-भासनशीलम् । पुनः कथंभूतम् ? । ' आलयामोदितं । आलयैः-आवासैः अमोदितं-न मोदं नीतम. आलये-गृहे अमोदितं-न मदमापन्नमित्यर्थो वा । त्यक्तगृहवासत्वादिति भावः ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org