________________
१३ श्रीविमलजिनस्तुतयः अथ श्रीविमलनाथाय प्रणामः
अपापदमलं धनं शमितमानमामो हिते
नतामरसभासुरं विमलमालयोऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं विमलमालयामोदितम् ॥ १॥
-पृथ्वी (६९) ज० वि०-अपापदमलमिति । वयं विमलं-विमळनामानं भगवन्तं आनमामा-भणमामः इति क्रियाकारकसंटङ्कः । अत्र 'आनमामः । इति क्रियापदम् । के कर्तारः१ 'वयम्।। कर्मतापनम् ? 'विमलम् ।। कथंभूतं विमळम् ? ' अपापदं ' न पापं ददातीत्यपापदस्तम् । कथम् ? 'अलं' अत्यर्थम् । अथवा अपापदमलमित्यक्षतमेव विशेषणम् । तथाचायमर्थ:--अपापोनिष्पङ्कने यो दम-उपशमस्तं लाति-आदत्ते इत्यपापदमलस्तम् । पुनः कथं० १ . इतं । प्राप्तम् । किं फर्मतापमम् ? 'शं' सुखम् । शं कथंभूतम् ? 'घनं' अच्छिद्रम् । अशेषमलक्षयात्यमित्यर्थः। पुनः कथं० विमळम् ? 'हित हितकारिणम् । पुनः कथं० १ 'नतामरसभासुर नता-नम्रीभूता अमरसभा-देवपर्षत् असुरा-मुक्नपतिदेवविशेषा यस्य, अथवा नता अमरा-देवाः सभा-भासहिताः अमुरा यस्य स तथा तम् । पुनः कथं० १ ' आमोदितं ' सुरभीकृतम् । कया ? 'विमझमालया' विमला-विगतमला या माला-स्रक तया । पुनः कथं० ? ' अपापदं ' अपगता आपदो यस्मात स तथा तम् । पुनः कथं ? 'अलङ्घनं ' न विद्यते लङ्घनम्-अधःकरणं कुतोऽपि यस्य स तथा तम् । पुनः कथं ? 'शमितमानं ' शमित:-शमं नीतो मानो येन स तथा तम् । पुन: कथं० १ 'आमोहितं न ' आ-समन्तात् मोहितं न । नेति निषेधपदम् । पुनः कयं ? ' तामरसभासुरं' तामरसं-महोत्पलं तद्वद् भासुरं-भासनशीलम् । पुनः कथं ? ' आलयामोदितं ' आळयैः-आवासैरमोदितं-न मोदं नीतम् । यद्वा आलयेऽमोदितं-न मुदमापनम् , त्यक्तगृहवासत्वात् ॥
अथ समासः-पापं ददातीति पापदः 'तत्पुरुषः। (नपापदः अपापदः 'तत्पुरुषः)।त अपापदम् । अथवा. अपगतं पापं यस्मात् सः अपापः 'बहुव्रीहि: । अपापश्चासौ दमश्च अपापदमः 'कर्मधारयः' । अपापदमं लातीत्यपापदमलः 'तत्पुरुषः'। तमपाप० । अमराणां समा अमरसभा 'तत्पुरुषः। अमरसभा च असुराश्व अमर० 'इतरेतरद्वन्द्वः' । नता अमरसमासुरा यस्य स नतामर
१'या मोदितम्' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org