________________
१४०
स्तुतिचतुर्विंशतिका
[ १२ श्रीवासुपूज्य
शमिनी - शान्तिकारिणी 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमिनी' । पुनः किंवि० श्रीशान्तिदेवी ? । 'वाहितम्वेतभास्वत्सनालीका' । पुनः किं० श्रीशान्तिदेवी ? । सद्भिः साधुभिः आप्ता - प्रमाणीकृता 'सदाप्ता' । पुनः किं० श्री शान्तिदेवी ? । परिकरैः परिजनैः सेवकैर्वा मुदिता - हर्षिता परिकर मुदिता । पुनः किं० श्रीशान्तिदेवी ! । अक्षमालया - जपमालया सहिता इति साक्षमाला । पुनः किं० श्रीशान्तिदेवी ? । 'सा ' सा - प्रसिद्धा उपलक्षिता । सा का ? | यस्याः परिकरं हस्तं उपलक्षीकृत्य कुण्डिका - कमण्डलुभाति इत्यन्वयः । ' भाति ' इति क्रियापदम् । का कर्त्री ? । कुण्डिका । ' भाति ' शोभते । कथम् ? ' परिकरं ' हस्ते इत्यर्थः । परित्यव्ययस्य आधारकर्मणि द्वितीया । कस्याः ? | ' यस्याः ' देव्याः । पुनः किं० श्रीशान्तिदेवी ! | सनं-क्षीणं गतं वा अलीकं - मिथ्यात्वं यस्याः सा सन्नालीका '। कथम् ? । 'सदा' निरन्तरम् । पुनः किं० श्री शान्तिदेवी ? । ' आप्ता' प्रतीता । पुनः किं० श्री शान्तिदेवी ? । ' उदिता ' उदयं प्राप्ता । इति पदार्थः ॥
अथ समासः - रक्षांसि च क्षुद्राश्च महाश्च रक्षःक्षुद्रग्रहाः, रक्षःक्षुद्रग्रहा आदिर्येषां ते रक्षःक्षुद्रमहादयः, रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षःक्षुद्रग्रहादिप्रतिहतिः, तस्याः शमिनी रक्षःक्षुद्रग्रहादिप्रतितिशमिनी । सत् च तत् नालीकं च सन्नालीकं, भास्वच्च तत् सम्न्नालोकं च भास्वत्सन्नालीकम्, श्वेतं च तत् भास्वत्सन्नालीकं च श्वेतभास्वत्सन्नालीकम्, वाहितं श्वेतभास्वत्सन्नालीकं यया सा वाहितश्वेतभास्वत्सचालीका । सद्भिः सतां वा आप्ता सदाप्ता । परिकरैः मुदिता परिकरमुदिता । अक्षाणां माला अक्षमाला, अक्षमालया सहिता साक्षमाला। सन्नं क्षीणं अलीकं यस्याः सा सन्नालीका । करं परि-व्याप्तीकृत्य इति परिकरम् । मुत् सञ्जाता अस्या इति मुदिता । क्षमाया लाभः क्षमालाभ:, क्षमालाभो विद्यते यस्यासौ क्षमालाभवान् । यद्वा क्षमा च लाभश्च क्षमालाभौ, क्षमालाभ विद्येते यस्यासौ क्षमालाभवान्, तं क्षमालाभवन्तम् । ॥ इति चतुर्थवृत्तार्थः ॥ ४ ॥
श्री वासुपूज्यदेवस्य स्तुतेरर्थो लिपीकृतः । सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति वासुपूज्यजिनस्तुतिः ॥ ४।१२।४८ ॥
दे० व्या० - रक्षः क्षुद्रेति । सा श्रीशान्तिदेवी भवन्तं क्षमालाभवन्तं जनयतात् कुर्यादिति सम्बन्ध: । 'जनी प्रादुर्भावे ' धातुः । ' जनयतात् ' इति क्रियापदम् ! का कर्त्री ? । (श्री) शान्तिदेवी । श्रीशब्दोऽत्र पूज्यवाचकः । कं कर्म तापनम् ? । भवन्तम् । किंविशिष्टं भवन्तम् ? । 'क्षमालाभवन्तम् ' क्षमायाः - उपशमस्य लाभः - प्राप्तिः तदन्तम् । किंविशिष्टा देवी ? । ' रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि - कीनाशाः क्षुत्राः - शाकिनीप्रमुखाः ग्रहाः - शनैश्वरादयः आदिग्रहणादन्येऽपि भूपालव्यालकाला दयो ग्राह्याः, एतेषां 'द्वन्द्वः ', तेभ्यः प्रतिहतिःउपघातः तस्याः शमनी-नाशिनी । पुनः किंविशिष्टा ? । 'वाहितश्वेतभास्वत्सन्नालीका ' वाहितं वाहनीकृतं श्वेतं-धवलं भास्वत्-दीप्यमानं सत् - शोभनं नालीकं कमलं यया सा तथा । पुनः किंविशिष्टा ? | यथार्थोपदेष्ट्री, अविप्रतारिकेत्यर्थः । कथम् ? । सदा-सर्वदा । पुनः किंविशिष्टा । ' परिकरमुदिता ' परिकरेणपरिस्कन्देन परिवारेणेतियावत् मुदिता - हर्षिता । " परिस्कन्दः परिकर " इत्यभिधानचिन्तामणिः (१) । पुनः किंविशिष्टा ! | शुभ्रा - अवदाता । यत्तदोर्नित्याभिसम्बन्धाद् यस्याः - शान्तिदेव्याः जगाते - पृथिव्यां कुण्डिका भाति -शोभते इत्यन्वयः । ' भाकूं दीप्तौ ' इति धातुः । ' भाति' इति क्रियापदम् । का कर्त्री ।। कुण्डिका । कस्याः ? | श्रीशान्तिदेव्याः । कस्मिन् ? । जगति किंविशिष्टा कुण्डिका? | 'सन्नालीका' सत्-शोभनं नालीकंकमलं यस्याः सा तथा । पुनः किंविशिष्टा कुण्डिका? | 'सदाप्ता' सद्भिः साधुजनैः आप्ता प्राप्ता । पुनः किविशिष्टा ? । 'परिकरमुदिता करं हस्तं परि-लक्ष्यीकृत्य उदिता उदयं प्रापिता । 'लक्षणेत्थंभूताख्यानभागवीप्सा प्रतिपर्यनवः' ( पा० अ० १, पा० ४, सू० ९० ) इति सूत्रेण द्वितीया । पुनः किंविशिष्टा || साक्षमाला' अक्षमाला जपमाला तया सह वर्तमाना । देवीपक्षे ' सन्नालीका ' सनं क्षीणं अलीकं-असत्यां यस्याः सा तथा । 'सदामा' सतां मध्ये आता वृद्धा । निर्धारणे षष्ठी । परिकरेण-जटामण्डलेन मुदिता - हर्षिता इत्यर्थो बोध्यः । इति चतुर्थवत्तार्थः ॥ ४ ॥ स्रग्धराच्छन्दः । “ विज्ञेया स्रग्धरेयं मरभनययया वाह वाहैर्यतिश्वेत्” इति तल्लक्षणम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org