________________
जिनस्तुतयः] स्ततिचतुर्विशतिका
१३९ सि. १०-रक्षाक्षुद्रेति । हे मव्य ! प्राणिन् ! सा श्रीशान्तिदेवी शान्तिदेवता, श्रीशब्दोन महत्त्वख्यापकः, मवन्तं त्वां जगति-भुवने सदा-नित्यं 'क्षमालामवन्त' क्षमतीति क्षमा तस्या लामः-प्राप्तिः स क्यिते यस्य स क्षमालाभवान् तादृशं जनयतात्-कुरुतादित्यर्थः । जनी प्रादुर्भावे ' धातोः 'आशी:प्रेरपयोः ( सा० स० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । 'अप्० ( सा० सू० ६९१), 'गुणः' (सा० स० ६९२), 'ए अय् ' (सा० सू०४१) तुपस्तातङादेशः । तथा च 'जनयतात्' इति सिद्धम् । अत्र 'जनयतात्' इति क्रियापदम् । का कर्ती । श्रीशान्तिदेवी । कं कर्मतापन्नम् ! । मवन्तम् । भाच्छब्दस्पामि परे रूपम् । कस्मिन् ? । जगति । कथम् ! । सदा । कथंभूता श्रीशान्तिदेवी ! । 'रक्ष:क्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः क्षुद्राः-शाकिन्यादयः ग्रहाः-शनैश्चरप्रमुखाः आदिशब्दादन्येऽपि मपालल्यालकालादयः तेभ्यः प्रतिहननामिति व्युत्पत्त्या प्रतिहतिः-उपघातः तस्याः शमनी-विनाशिनी । पुनः कथंभूता ? | 'वाहितश्वेतमास्वत्सन्नालीका' वाहि-वाहनीकृतं श्वेतं-उज्ज्वलं भास्वद्-दीप्यमानं सत्-शोमन नालीक-कमलं यया सा तथा । पुनः कथंभूता ? ।' प्तापरिकरमुदिता' ता-जटा तस्याः परिकरः-मण्ड तेन मुदिता-दृष्टा । अत्र ताशब्देन जटा ज्ञेया । लक्ष्यं च
" राजा राजार्चिताहेरनुपचितकलो यस्य चूडामणित्वं
नागा नागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भन्मतिरिति यमिना येन वोऽदाहि मारः
स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु बिभ्रत्रिनेत्रः॥" इति रमतरङ्गिण्यां शृङ्गारतिलकटीकायाम् । पुनः कथंभूता ! । शुभ्रा-शुक्लवर्णा । पुनः कर्यभता ! । ' सन्नालीका' सन्नं क्षीणं क्षयं गतमितियावद् अलीक-असत्यं यस्याः सा तथा । पुनः कर्यमूता ? । 'सदाप्ता' सतां-साधूनां आप्ता-अवश्चका, अविप्रतारिकेत्यर्थः । सेति तच्छब्दसहचारित्वाद् यच्छन्दघटनामाह-यस्याः-शान्तिदेव्याः परिकर करं-हस्तं लक्ष्यीकृतकरेत्यर्थः, कुण्डिका-कमण्डलुः भाति-शोमन इत्यर्थः । ' मा दीप्तौ' इति धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तिप् । अत्र 'माति' इति क्रियापदम् । का की ! । 'कुण्डिका' कुण्डिरेव कुण्डिका । “ अस्त्री कमण्डलुः कुण्डी" इत्यमरः (श्लो० १४४४) । कथम् ? । परिकरम् । कस्याः ? । यस्याः । कथंभूता कुण्डिका ? । उदिता-उदयं प्राया । पुनः कथंभूता । साक्षमाला--अक्षावलीसमेता। एते द्वे विशेषणे श्रीशान्तिदेव्या (वा) व्याख्येये इति । स्रग्धराच्छन्दः । “विज्ञेया स्रग्धरेयं मरभनययया वाहवाहैर्यतिश्चेत् " इति च तल्लक्षणम् ॥ ४॥
॥ इति महोपाध्यायभानुचन्द्र० श्रीवासुपूज्यजिनस्तुतिवृत्तिः॥ १२ ॥ __सौ००-रक्षःक्षुद्रेति । श्रीशान्तिनाम्नी देवी चण्डीत्यपराख्या जगति-पृथिव्यां भवन्तं-त्वां क्षमाशान्तिः तस्या लाभस्तद्वन्तं क्षमालाभवन्तं जनयतादित्यन्वयः। 'जनयतात्' इति क्रियापदम् । का की ? । 'श्रीशान्तिदेवी' शान्तिनाम्नी देवी । श्रीशब्दः पूज्यार्थे। श्रिया-लक्षम्या युक्ता शान्तिदेवी श्रीशान्तिदेवी । 'जनयतात् । विदध्यात् । कं कर्मतापनम् ? । 'भवन्तम् ।। किंवि० भवन्तम् । 'क्षमालाभवन्तमा किविशिखा श्रीशान्तिदेवी?'शधा'गौरवणों। पुनः किंवि० श्रीशान्तिदेवी रक्षः(क्षांसि। राक्षसाः क्षुद्राः-शाकिन्यादयः ग्रहाः-खेटाः आदिशब्दात् भूपालव्यालादयः तेषां प्रतिहति:-बिन्नं तस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org