________________
१५८
स्वविवर्विशतिका [१२ श्रीवासपूज्यज०वि०-रक्षःक्षुद्रेति । हे भव्य ! प्राणिन् ! सा श्रीशान्तिदेवी-श्रीशान्तिदेवता, अयं श्रीशब्दः पूज्यवसूचकः, भवन्तं-त्वां जगति-भुवने सदा-नित्यं क्षमालाभवन् । क्षमा-क्षान्तिः तस्या लाभ:-प्राप्तिः स विद्यते यस्य स क्षमालाभवान् तथाविधं जनयतात्-कुर्वीत इति क्रियाकारकप्रयोगः। अत्र 'जनयतात् ' इति क्रियापदम् । का की ? ' श्रीशान्तिदेवी'। के कर्मतापक्रम ! 'भवन्तम् । । कयंभूतम् ? 'क्षमालाभवन्तम् ।। कस्मिन् ? 'जगति ।। कथम् ? ' सदा। श्रीशान्तिदेवी कयंभूता ? 'रक्षाक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः क्षुद्रा:-शाकिनीमभृतयः प्रहा:-शनैश्चरादयः आदिशब्दात् भूपालव्यालकालभूतादयस्वेभ्यः प्रतिहति:उपधातः तस्याः शमनी-विनाशिनी । पुनः कथंभूता ? 'वाहितश्वेतमास्वत्समालीका। वेत-उज्ज्वलं भास्वत्-दीप्यमानं सत्-शोभनं नालीक-फमलं वाहितं-वाहनीकृतं श्वेतभास्वत्सन्नालीकं यया सा तथा । पुनः कथंभूता ? ' सापरिकरमुदिता । सापरिकर:मटामण्डलं तेन मुदिता-हृष्टा । पुनः कयं० शुभ्रा ' शुक्लवर्णा । पुनः कयं? 'सत्रालीका । स-अवसादं गतं अली-असत्वं यस्याः सा तथा । पुनः कयं० ? 'सदामा ' सा-साधूनां आप्ता-अविप्रतारिका । सेति तच्छन्दसहचारित्वाद् यच्छब्दघटनामाह-यस्याः-शान्तिदेव्याः ‘परिकरं' करं-हस्तं लक्ष्यीकृत्य करे इत्यर्थः, कुण्डिकाकमण्डलुः भाति-योभते । अत्रापि • भाति । इति क्रियापदम् । का कर्ती ! 'कुण्डिका। कथम् ? ' परिकरम् ।। कस्याः १ ' यस्याः ।। कुण्डिका कयंभूता ? ' उदिता' उदयं माता । पुना यंभूता ? ' साक्षमाला' अक्षावलीसमेता । एते द्वे विशेषणे श्रीशाविदेण्या वा व्याख्यायेते ॥
अथ समासः-रक्षासि च क्षुद्राश्च ग्रहाश्च रक्षक्षुद्रग्रहाः इतरेतरद्वन्द । रसाक्षुद्रग्रहा आदी ये से रक्षा 'बहुव्रीहिः ।। रक्षाक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षः 'तत्पुरुषः । रक्षःक्षुद्रग्रहादिप्रतिहतेः शमनी रक्षाक्षुद्र० 'तत्पुरुषः। भास्वञ्च तत् सच्च भास्वत्सत् 'कर्मधारयः। भास्वत्सच्च तमासीकं च भास्वत्स० 'कर्मधारयः। श्वेतं च तत् भास्वत्समालीकं च श्वेतभा 'कर्मधारय । वाहितं श्वेतभास्वत्सनालीक यया सा वाहितश्वेत. 'बहुव्रीहिः । प्तायाः परिकरः सापरिकरः 'तत्पुरुषः । तापरिकरण मुदिता साप. 'तत्पुरुषः । क्षमाया लाभः क्षमालामः 'तत्पुरुषः'क्षमालाभोऽस्यास्तीति क्षमालाभवान् बहुव्रीहिः तं क्षमा० । शान्तिश्चासौ देवी च शान्तिदेवी 'कर्मधारयः श्रियोपलक्षिता शान्तिदेवी श्रीशान्ति तत्पुरुषः ।सन अली यया सा समालीका 'बहुव्रीहिः' । सतामाप्ता सदाप्ता 'तत्पुरुषः' । करं परि-लक्ष्यीकृत्य परिकरं 'अव्ययीभावः' । सह अक्षमालया वर्तते या सा साक्षमाला 'तत्पुरुषः ॥ इति काव्यार्थः ॥४॥
इति श्रीमात्पण्डितश्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोमनस्तुतिवृत्तौ श्रीवासुपूज्यजिनपतिस्तुतेव्याख्या ॥ १२ ॥
॥ द्वितीयांशः सम्पूर्णः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org