________________
जिनस्तुतयः]
स्तुतिचतुर्विंशतिका
१३७
उखुतं प्रोद्धतम्, प्रोद्धतं च तद् ध्वान्तं च प्रोद्धृतध्वान्तम् , कुमतस्य प्रोद्धतध्वान्तं कुमतप्रोतध्वान्तम्, (हेतूपपत्तिप्रतिहतं च तत् कुमतप्रोद्धतध्वान्तं हेतू० ), हेतूपपत्तिप्रतिहतकुमतप्रो. व्रतध्वान्तस्य बन्धो यया सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा । पापस्य आयासः पापायासः, न विद्यते पापायासो येषां ते अपापायासाः, अपापायासैः (आ) साद्यमाना अपापायासाधमाना । न विद्यते मदनो यस्य स अमदनः, तस्य सं० हे अमदन! । सुधायाः सारं सुधासारम्, सुधासारव हृद्या सुधासारहृद्या । निर्वाणस्य मार्गो निर्वाणमार्गः, निर्वाणमार्ग प्रणयोऽस्ति येषां ते निर्वाणमार्गप्रणयिनः, निर्वाणमार्गप्रणयिभिः परिगता निर्वाणमार्गप्रणयिप रिगता। तीर्थस्य नाथः तीर्थनाथः, तस्य सं० हे तीर्थनाथ! । पापं च आयासश्च पापायासौ, पापायासी आदी येषां ते पापायासादयः, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, नास्त मानो येषां ते अमानाः, नास्ति मदो येषां ते अमदाः, अपापायासादयश्च अमानाश्च अमदाश्च अपापायासाद्यमानामदाः, अपापायासाद्यमानामदेनेतः अपापायासाद्यमानामदनतः, तस्य सं० हे अपापायासाद्यमानामदनत!। वसुधायां सार:-प्रधानः वसुधासारः, तस्य सं० हे वसुधासार! यद्वा हे अपाप! हे अनायास (!)! हे आद्यमान!-जगत्याचप्रमेयमहिमन् ! इत्यपि विशेषणत्रयी जिनसंबोधने पृथगू विशेषणानि व्याख्येयानि।। इति तृतीयवृत्तार्थः ॥ ३॥
दे०व्या०-नित्यं हेतूपपत्तिति। हे तीर्थनाथ! तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरे वा तस्य नाथ:-स्वामी। तस्यामन्त्रणम् । तव-भवतः वाणी-भारती मे-मम हितानि-पथ्यानि नित्यम-अनवरतं यथा स्यात् तथा क्रियात-दिश्यादिस्यन्वयः । 'इकृञ् करणे' धातुः। 'क्रियात्' इति क्रियापदम् । का की? । वाणी । कस्य ?। तव। कानि कर्मतापन्नानि ?। हितानि । कस्य ? । मे-मम । किंविशिष्टानि हितानि । आहितानि-स्थापितानि। “स्थितं स्थापितमाहितम्" इत्यमरः (१)। कस्मिन् ? । हृदि-हृदये। किंविशिष्टा वाणी।।'हेतूपपत्तिपतिइतकुमतप्रोद्धतध्वान्तबन्धा' हेतवः-प्रमाणानि उपपत्तयः-युक्तयः, यद्दा हेतूनां उपपत्तयः ताभिः प्रतिहताविध्वस्ता कुमतस्य प्रोद्धता-प्रोद्दामा ध्वान्तबन्धा-अज्ञानग्रन्थिः यया सा तथा । मोद्धता चासौ ध्वान्तबन्धेति पर्व 'कर्मधारयः' । पुनः किंविशिष्टा ? | 'अपापायासाद्यमाना' अपगता अपाया:-कष्टानि येभ्यस्ते अपापायास्तै: आसायमाना-प्राप्यमाणा । पुनः किंविशिष्टा ।'सुधासारहृद्या' सुधायाः-अमृतस्य आसारो-बेगवान वर्षः तद हृद्या-वल्लभा।" आसारो वेगवान् वर्षः" इत्यभिधानचिन्तामणिः (का०२, श्लो०७९)। श्रयमाणा अमृतमिव हृदयस्मति तात्पर्यार्थः । पुनः किंविशिष्टा ?। 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मागे-वर्मनि प्रणयः-स्नेहो विद्यते येषां ते तथा तः परिगता-अङ्गीकृता।'अमदन!" इति । नास्ति मदनःकन्दर्पो यस्य स तस्यामन्त्रणम् । 'अपापायासायमामामदमत !! इति। पापं च आयासादयश्च ते तथा, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, न विद्यते मानः-अहङ्कारो येषां ते तथा, न विद्यते मदनः-कन्दपों (मदः-दो) येषां ते तथा, अपापायासादयः अमानाः अमदना(अमदा)श्च ते नराश्चति तैः नत !-वन्दित!। 'वसुधासार !" इति। वसुधायां-पृथिव्यां सारः-प्रधानो यस्तस्यामन्त्रणम् । पतानि भगवतः सम्बोधनपदानि । इति तृतीयवृत्तार्थः ॥३॥
श्रीशान्तिदेव्याः स्तुतिःरक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत्
सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाता परिकरमुदिता साक्षमाला भवन्तम् ॥ ४ ॥
-स्रग्० . १ आयासस्य स्थाने 'आय' शब्दस्य प्रयोगः कार्य इति प्रतिभाति । २ 'शमिनी' इति पाठान्तरम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org