________________
स्तुतिचतुर्विशतिका
[१२ श्रीवासुपूज्यकी। वाणी । कानि कर्मतापन्नानि । हिसानि । कस्य । मे। वाणी कस्य ! । तव । कथंभूतानि हितानि । आहितानि-स्थापितान । कस्मिन्? 'हृदि' हृदये । चित्तेप्सितानीति फलितार्थः । कथंभूता वाणी? । 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवः-साध्यगमकानिलिभानि, उपपत्तयो-युक्तयः, ततो हेतवश्व उपपत्तयश्च हेतूपपत्तयः । इतरेतरद्वन्द्वः', यद्वा हेतूनामुपपत्तयः हेतुपपत्तयः, ताभिः प्रतिहतो-निराकृतः कुमतरूप, प्रोद्धतध्वान्तबन्धः-प्रोदामतिमिरग्रन्थिर्यया सा। तथा प्रोद्धतश्चासौ ध्वान्तबन्धश्च प्रोद्धतध्वान्तबन्धः, कुमतं एव प्रोद्धत• कुमत ० इति 'कर्मधारयः' । पुनः कथंभूता ! । 'अपापायासाद्यमाना' अपगतः अपायो विधातो येषां ते
पापायाः, तः आसाद्यमाना-प्राप्यमान । केचित् त अपापायेति आसाद्यमानेति च पृथग् विशेषणद्वयम् । तषाचायमर्थ:-अपगतः अपायो यस्याः सा (अपापाया), आसाद्यमाना साधुभिरित्यध्याहियत इति वदन्ति । पुनः कथंभूता । 'सुधासारहृद्या' सुधायाः-अमृतस्य भासारः-वेगवदृष्टिः तद्वद् हृद्या-मनोज्ञा । श्रूयमाणा अमृतमिव हृदयङ्गमेति फलितार्थः । “आसारो वेगवान् वर्षो" (का०र, श्लो० ७९) इति हैमः । पुनः कथंभूता? । 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्गः-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नहो या येषां ते निर्वाणमार्गप्रणयिनः, तैः परिगता-अङ्गीकृता । “निर्वाणं निवृतौ मोक्षे, विनाशे गजमज्जने" इत्यमरः (१)। अवशिष्टानि भगवतः सम्बोधनानि । तेषामर्थश्चैवम्-न विद्यते मदनः-मन्मथो यस्य स तथा तस्य सम्बोधनं हे अमदन!-मदनरहित ! । पापं-पातकं आयास:-खेदः पापं च आयासश्च पापायासौ 'द्वन्द्वः', तौ आदी येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, न विद्यते मानं (नो) येषां ते अमानाः-मानरहिताः, न विद्यते मदो येषां ते अगदा:-मदरहिताः, ततः अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तैर्नतः-वन्दितः, तस्य सम्बोधनं हे अपापायासाद्यमानामदनत!। वसुधा-पथ्वी तत्र सार:-श्रेष्ठः तस्य सम्बोधनं हे वसुधासार ! ॥ ३ ॥
___ सौ०१० - नित्यं हेतूपपत्तीति । हे तीर्थनाथ !-हे तीर्थस्वामिन् ! । हे अमदन!-अकाम ! । हे अपापायासाद्यमानामदनत! गतपाप आयास:-श्रमः तदादि अमाना-निराभिमानः अमदा-अदपितः नत-प्रणतः इत्यर्थः। तस्य सं० हे 'अपापायासाद्यमानामदनत! 'हे 'वसुधासार!' पृथिवीप्रधान ! । तव-भवतः पाणी-भारती मे-मम हितानि-पथ्यानि क्रियात् इत्यन्वयः।"क्रियात् । इति क्रियापदम् । का की ?। 'याणी' भारती। 'क्रियात्' कुर्यात् । कानि कर्मतापन्नानि।। 'हितानि' पथ्यानि। कस्य ? । 'मे' मम । कथम् ? । 'मित्यं' सदा। किविशिष्टानि हितानि ?। 'आहितानि' स्थापितानि । कस्मिन् ?। 'हदि' चित्ते। किंविशिष्टा वाणी । हेतवः-लिङ्गगमकाः उपपत्तयः-दृष्टान्ताः तैः प्रतिहतं-निराकृतं कुमतं-कुत्सितशासनं तदेव प्रोद्धतं-प्रकर्षेण उद्दामं ध्वान्तं-अन्धकारं यदनादिमिथ्यात्वरूपं तस्य बन्धो-ग्रन्थिकाभेदलक्षणो यया सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' । पुनः किं० वाणी?।अपगताःपापायासा येभ्यः ते तैः । साधुभिरित्यध्याहार्यम् । (आ)साद्यमाना स्वाद्यमाना (?) 'अपापायासाद्यमाना' । पुनः किंविशिष्टा वाणी? । सुधा-अमृतं तस्या आसारो-रसः “आसारो वेगवान् वर्षः' (अभि०का०२, श्लो०) तद्वद् हृद्या-मनोज्ञा 'सुधासारहृद्या' । पुनः किं० वाणी?। निर्वाणमार्गो-मोक्षमार्गः सम्यग्ज्ञानदर्शनचारित्रलक्षणः तस्मिन् प्रणयः-स्नेहो येषां ते तादृशा ये साधवस्तैः परिगता-व्याप्ता 'निर्वाणमार्गप्रणयिपरिगता' । एताहशी जिनवाणी मे-मम हितानि-अभीष्टानि कुर्यात् । इति पदार्थः ।। ___अथ समासःहेतवश्च ते उपपत्तयश्च हेतूपपत्तयः, यद्वा हेतूनां उपपत्तयः-प्राप्तयः हेतूपपत्तया, पपत्तिभिः प्रतिहतं हेतुपपत्तिमतिहतम्, कुत्सितं मतं कुमतं तदेव ध्वान्तं कुमतध्वान्तम् ], प्रकर्षण १ अयं पाठो निरर्थकः प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org