________________
जिनस्तुतयः]
स्तुतिचतुर्विंशतिका प्राप्यमाणा । अथवा अपापायेति आसाद्यमानेति च पृथय् विशेषणद्वयम् । तथाचायमर्थःअपगतोऽपायो यस्याः सा तथा। आसाद्यमाना । साधुभिरित्यध्याहियते । पुनः कयं ? 'सुधासारहया ' सुधा-पीयूषं तस्या आसारो-वेगवान् वर्षस्तद्वद् हृद्या-मनोना । पुनः कथं०१ 'निवार्णमार्गप्रणयिपरिगता' निर्वाणमार्गो-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नेहो वा येषां ते तथा तैः परिगता-समाश्रिता, स्वीकृतेत्यर्थः । अवशिष्टानि तीर्थनाथस्य सम्बोध. नानि, तेषां व्याख्या यथा-हे ' अमदन!' मदनरहित ।। हे ' अपापायासाद्यमानामदनत ! पापं-पातकं आयास:-खेदः तो आदौ येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, अमाना-मानरहिताः अमदा-मदरहिताः, ततो अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तै त !-वन्दित ! । हे 'वसुधासार !' वसुघापृथ्वी तत्र सार!-उत्कृष्ट ! ॥
अथ समासः-हेतूनामुपपत्तयः ( हेतुपपत्तयः) 'तत्पुरुषः । (हेतवश्व उपपत्तयश्च हेतूपपत्तयः । इतरेतरद्वन्द्वः')। ध्वान्तस्य बन्धो ध्वान्तबन्धः 'तत्पुरुषः । प्रोद्धतश्चासौ ध्वान्तबन्धश्च प्रोद्धतध्वान्तबन्धः 'कर्मधारयः' । कुमतमेव प्रोद्धतध्वान्तवन्धः कुमतपो० 'कर्मधारयः।। प्रतिहतः कुमतप्रोद्धतध्वान्तबन्धो यया सा प्रतिहत० 'बहुव्रीहिः ।। हेतूपपत्तिभिः प्रतिहतकुमतप्रोद्धतध्वान्तबन्धा हेतूपपत्ति० 'तत्पुरुषः' । अप. गतोऽपायो येषां ते अपापायाः 'तत्पुरुषः । अपापायैरासायमाना अपापा ' तत्पुरुषः । यद्वा अपगतोऽपायो यस्याः सा अपापाया 'तत्पुरुषः ' । न विद्यते मदनो यस्य सोऽमदनः ' तत्पुरुषः । तत्सम्बो. हे अमदन! । सुधाया आसारः सुधासारः 'तत्पुरुषः । सुधासार इव हृद्या सुधा० 'तत्पुरुषः ।निवार्णस्य मार्गों निर्वाणमार्गः 'तत्पुरुषः। प्रणयोऽस्त्येषां ते प्रणयिनः ('बहुव्रीहिः')।निर्वाणमागेस्य प्रणयिनो निर्वाण. 'तत्पुरुषः । निर्वाणमार्गप्रणयिभिः परिगता निर्वाण. 'तत्पुरुषः । तीर्थस्य नाथस्तीर्थनाथः 'तत्पुरुषः । तत्सम्बोधनं हे तीर्थ । पापं च आयासश्च पापायासौ 'इतरेतरद्वन्द्वः । पापायासावादी येषां ते पापायासादयः 'बहुव्रीहिः । न विद्यन्ते पापायासादयो येषां ते अपापाया• 'वहुव्रीहिः' । न विद्यते मानं येषां ते अमानाः 'बहुव्रीहिः। न विद्यते मदो येषां ते अमदाः । ततोऽपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापा. 'कर्मधारयः । अपापायासाद्यमानामदैनतः अपापायासा० ' तत्पुरुषः । । तत्सम्बो. हे अपापाया। वसुधायां सारो वसु० ' तत्पुरुषः' । तत्सम्बो० हे वसु० ॥ इति काव्यार्थः ॥३॥
सि० ०-नित्यं हेतूपपत्तीति । तीर्थ---चतुर्विधः सङ्घः प्रथमगणधरो वा तस्य नाथ:-स्वामी सस्य सम्बोधनं हे तीर्थनाथ ! तव-भवतः वाणी-वाक् मे-मम हितानि--कल्याणानि नित्यं-सदा क्रियात्-विधे. यात् इत्यर्थः । 'डुकृञ् करणे' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'यादादौ' (सा० स० ११) इति ऋकारस्य रिकादेशः । तथाच 'क्रियात्' इति सिद्धम् । अत्र 'क्रियात्' इति क्रियापदम् । का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org