________________
१३४ स्तुतिचतुर्विशतिका
[ १९ श्रीवासपूज्यदे०व्या०-पूत इति । सा जैनराजी ततिः ते-तव रजः- कर्म तरां-अतिशयेन प्रविकिरतु (तरां)विक्षिपतु इत्यन्वयः । 'कृ विक्षेपे' धातु । 'प्रविकिरतु(तरा)' इति क्रियापदम् । का कर्जी? । ततिः । किं कर्मतापन्नम्। रजः । कस्य ।। ते-तव । यत्सदोर्नित्याभिसम्बन्धाद् या इह-अस्मिन् लोके तापत्रा-ज्वरच्छेत्री असमाना-अनन्यसदृशी गुणैरिति शेषः । प्रतिमदं-गतदर्प अर्थात् साधुजनम् अवति-रक्षति । 'अवति ' इति
इम | का कर्जी । या । कं कर्मतापन्नम ? | प्रतिमदम । तथा यत्पादपांशः सुरततेः शिरसि चूर्णभां आचरत्-प्राप्तवान् । 'थर गतिमक्षणयोः । इति धातुः। आचरत् । इति क्रियापदम् । कः कर्ता। यत्पादपांशःयस्याः चरणरेणुः । " स्यु—लीपांशुरेणवः" इत्यभिधानचिन्तामणिः (का०४, श्लो० ३६)। कां कर्मतापन्नाम् । चूर्णशोभा-चासलक्ष्मीम्। “वासयोग्य(ग )स्तु चूर्ण स्यात्' इत्यभिधानचिन्तामणिः (का० ३, श्लो. ३०१)। कस्मिन् ? | शिरसि-मस्तके । कस्याः ? । सुरततेः-देवसमूहस्य । सुराणां ततिरिति विग्रहः तस्याः। किंविशिष्टः पादपांशः ? । पत:-पवित्रः । भगवच्चरणसंस्पर्शनादिति भावः। किंविशिष्टा ततिः? । 'जैनराजी' जिनराजाना इयं जैनराजी। पुनः किंविशिष्टा ।'यातापत्रासमाना'आपद-विपत्तिः त्रासः-आकस्मिकं भयं मानः-स्मयः एतेषां पूर्व 'इन्द्रः', ततो यमता-मता आपत्त्रासमाना यस्या इति 'बहुव्रीहिः' । पुनः किंविशिष्टा!'हारतारा'।हाराः-मुक्तावल्यः तद्वत् तारा-निर्मला। पुनः किंविशिष्टा अरता-अप्रतिबद्धा। पुनः किंविशिष्ट राजयन्ती-शोभा लम्भयन्ती। (पुनः)किंविशिष्टा! । 'अप्रतिमदमवती' अप्रतिमः-अनन्यसदृशः दमः-उपशमः यस्याः सा । पुनः किंविशिष्टा ?। 'जयन्ती, अभिभवन्ती । कया। कान्त्याप्रभया । कस्याः ?। कीर्तेः-यशसः ॥ इति द्वितीयवृत्तार्थः ॥२॥
जिनवाण्याः स्वरूपम्
नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धाऽ
पापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥ ३ ॥
-स्रम् ज०वि०--नित्यं हेतूपपत्तीति।हे तीर्थनाथ!-तीर्थपते! तव-भवतः वाणी-वाक मे-मम हितानिपथ्यानि नित्यं-सदा क्रियात्-विधेयात् इति क्रियाकारकसम्बन्धः। अत्र 'क्रियात्' इति क्रियापदम्। काकी? 'वाणी कानि कर्मतापन्नानि ? 'हितानि ।। कस्य ? 'मे'। वाणी कस्य ? 'तवाहितानि कथंभूतानि ? 'आहितानि' स्थापिनानि । कस्मिन् ? 'हृदि । मानसे । चित्तेप्सितानीत्यर्थः । वाणी कथंभूता? ' हेतूपपत्तिपतिहतकुमतपोद्धतध्वान्तबन्धा । हेतवो-वस्तुगमकानि लिङ्गानि, उपपत्तयो-युक्तयः, ततो हेतवश्व उपपत्तयश्च हेतुपपत्तयः, यद्वा हेतूनामुपपत्तयो हेतूपपत्तयः, ताभिः प्रतिहतः-प्रतिषिद्धः कुमतरूपः मोद्धतध्वान्तबन्धः-प्रोद्दापतिमिरग्रन्थिर्यया सा तथा । पुनः कथं ? ' अपापायासाघमाना'। अपगतोऽपायो-घातो येषां ते तथा तैरासाधमाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org