________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
1
गम्यते । पुनः किं कुर्वती सती ! | जयन्ती - न्यत्कुर्वन्ती । काः ? । 6 हारताराः हारा:-मुक्तावल्यः वारा:-नक्षत्राणि, हाराश्च ताराश्चेति ' द्वन्द्वः ' ताः । कया करणभूतया कृत्वा ! | कान्त्या - प्रभया । कस्याः ? | कीर्ते: - यशसः । अथवा कीर्तेः कान्त्या हेतुभूतया हारतारा - हारोज्ज्वला जयन्ती - पराभवन्ती । विपक्षानित्यध्याहारः । या कथंभूता । ' तापत्रा' तापात् त्रायत इति तापत्रा । पुनः कथंभूता ।' असमाना ' नास्ति समानः- सदृशो यस्याः सा असमाना । पुनः कथंभूता । ' अरता' नास्ति रतं - सुरतादिकं सुखं यस्याः सा तथा, रामरहिता विरक्तेतियावत् । पुनः कथंभूता । 'यातापत्रासमाना आपद् - विपत् त्रासः-आकस्मिकं भयं मानः - अभिमानः, आपच त्रासश्च मानश्च आपत्रासमाना: ' इतरेतरद्वन्द्वः ', ततो याता-गता आपत्रासमाना यस्याः सा तथा । पुनः कथंभूता । ' अप्रतिमदमवती ' अप्रतिमः - अनन्यसदृशो यो दमः - इन्द्रियनियन्त्रणं उपशमो वा यस्या अस्तीति अप्रतिमदमवती ॥ २ ॥
,
,
सौ० वृ० - पूत इति । सा जैनराजी ततिः ते तव रजः पापं इह संसारे प्रविकिरतुतरामित्यन्वयः । 'प्रविकिरतुतराम्' इति क्रियापदम् । का कर्त्री ? | 'ततिः' श्रेणिः । ' मविकिरतुतरां अतिशयेन विक्षिपतु - इतस्ततो नाशं प्राप्नुयात् । किं कर्मतापन्नम् ? । ' रजः ' बध्यमानं कर्ममलं पापं वा । कस्य ? | 'ते' तव । किंविशिष्टा ततिः ? ।' जैनराजी ' जिनराजसंबन्धिनीत्यर्थः । पुनः किंविशिष्टा ततिः ? | 'सा' प्रसिद्धा । सा का? | यत्पादपांशुः यच्चरणरेणुः सुरततेः- सुरसमूहस्य शिरसि - मस्तके चूर्णशोभां आचरत् इत्यन्वयः । आचरत्' इति क्रियापदम् । कः कर्ता ? । ' यत्पादपांशुः । आचरत् ' अधारयत् । कां कर्मतापन्नाम् ? । 'चूर्णशोभां ' वासक्षोदक्षेपशोभाम् । कस्मिन् । 'शिरसि ' मस्तके । कस्याः ? ।' सुरततेः' देवश्रेण्याः । किंविशिष्टो यत्पादपांशुः ? । 'पूतः' पवित्रः । किंविशिष्टा जैन जी ? | तापात् संसारसंतापात् त्रायते - रक्षति इति 'तापत्रा' । पुनः किं० जैनराजी ! | 'असमाना' अनन्य साधारण । पुनः किं कुर्वती जैनराजी ? । 'अवती' रक्षती । कं कर्मतापन्नम् ? । 'अप्रतिमदं' साधुजनमित्यर्थः । पुनः किं० जैनराजी ? । ' अरता ' अकामा । पुनः किं० जैनराजी ? | 'राजयन्ती ' शोभमाना । कया ? | 'कान्त्या ' प्रभया । कस्याः ? । 'कीर्तेः ' यशसः । पुनः किं० जैनराजी ? । याता-गता आपद् - विपत् त्रासं - आकस्मिकं भयं मानः- अहङ्कारो यस्याः सा 'यातापत्रासमाना' । पुनः किं० जैनराजी ? | अप्रतिमः - अनुपमो दमः - इन्द्रियजयो यस्याः सा ' अप्रतिमदमवती । पुनः किं० जैनराजी ? । 'जयन्ती ' जित्वरशीला । काः कर्मतापन्नाः ? । हारो-निर्मलमौक्तिकस्रगुरूपः तारा-नक्षत्र - णि: ता हारतारा निष्कलङ्कनैर्मल्यवात् । इति पदार्थः ॥
,
१३३
Jain Education International
अथ समासः यस्याः पादौ यत्पादौ यत्पादयोः पांशुः यत्पादपांशुः । सुराणां ततिः सुरततिः, तस्याः सुरततेः । चूर्णस्य शोभा चूर्णशोभा, तां चूर्णशोभाम् । या इति प्रत्यक्ष दृश्यमाना ततिविशेषणम् । तापात् त्रायते तापत्रा । न विद्यते समानः- सदृशो यस्याः सा असमाना अप्रतिमं अभयं (1) ददातीति, अप्रतिमदः, तं अप्रतिमदम् । यद्वा नास्ति के प्रति मदो यस्य सः अप्रतिमदः, तं अप्रतिमदम् । न विद्यते रतं सुरतं यस्याः सा अरता । जिनानां राजा इति जिनराज, जिनराजस्य इयं जैनराजी ।
For Private & Personal Use Only
,
आपच्च त्रासच मानश्च आपत्रासमानाः, याता-गता आपत्रासमाना यस्याः सा यातापत्रासमाना । न प्रतिमः अप्रतिमः, अप्रतिमश्चासौ दमश्च अप्रतिमदमः, अप्रतिमदमो विद्यते यस्याः सा अप्रतिमद्मवती । हारवत् तारा- उज्ज्वला हारतारा, यद्वा हाराश्च ताराश्च हारताराः, ता हारताराः । एतादृशी जैनराजी ततिः ते तव कर्मजः अतिशयेन क्षिपतुतराम् ॥ इति द्वितीयवृत्तार्थः ॥ ९ ॥
www.jainelibrary.org