________________
१३२ स्तुतिचविंशतिका
[ १२ श्रीवासपूज्यअथ समासः-यस्याः पादौ यत्पादौ 'तत्पुरुषः' । यत्पादयोः पांसुर्यत्पाद० तत्पुरुषः' सुराणां ततिः सुरततिः 'तत्पुरुषः । तस्याः सुर।चर्णस्य शोभा चूर्णशोभा 'तत्पुरुषः' । तां चूर्ण । तापात् त्रायत इति तापत्रा 'तत्पुरुषः । न समाना असमाना 'तत्पुरुषः' । न विद्यते प्रतिमदो यस्याऽसौ अप्रतिमदः 'बहुवीहिः । तं अप्रतिमदम् । न रता अरता 'तत्पुरुषः । यद्वा न विद्यते रतं यस्याः सा अरता 'बहुव्रीहिः'। आपच्च त्रासश्च मानश्च आपत्रासमानाः 'इतरेतरद्वन्द्वः। याता आपत्रासमाना यस्याः सा याताप० बहुव्रीहिः । न विद्यते प्रतिमो यस्य सोऽप्रतिमः 'बहुव्रीहिः । अप्रतिमश्चासौ दमश्च अप्रतिमदमः 'कर्मधारयः' । अप्रतिमदमोऽस्या अस्तीति अप्रतिमदमवती 'मान्तोपधाद्वत्विनौ' (सा० सू० ६२४) इति वतुष्प्रत्ययः । हाराश्च ताराश्च हारताराः 'इतरेतरद्वन्द्वःता हारताराः। अथवा हारवत् तारा हारताराः 'तत्पुरुषः ॥ इति काव्याथेः ॥२॥
सि. ४०-पूत इति । हे भव्य ! प्राणिन् ! सा जिनराजानामियं नैनरानी जिनराजसम्बन्धिनीत्यर्थः' वतिः श्रेणिः ते-तव रजः-कर्म प्रविकिरतुतरां--अतिशयेन निरस्यत्वित्यर्थः । प्रपूर्वक 'कू विक्षपे ' धातोः ' आशी:प्ररणयोः' (सा० म० ७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' अप् कर्तरि ' (सा० सू० १९१) इत्यप् । 'ऋत इर् ' (सा०म० ८२०) इतीर् । 'स्वरहीनं.' (सा० सू० ३१)। तथाच 'प्रविकिरतु' इति सिद्धम् । अत्र 'प्रविकिरतुतरा' इति क्रियापदम् । का की । ततिः । किंसम्बन्धिनी । जैनराजी । किं कर्मतापन्नम् ! । रजः । " रजः स्यादातवे शुभे । रजः परागे रेणौ च रज च परिकीर्तित " इति विश्वः । " रजोऽयं रजसा साधं, स्त्रीपुष्पगुणधूलिषु ” इति अजयः । कस्य ! । ते । षष्ठये कवचनमिदम् । कुत्र! । इह । सेति तन्छब्दसाहचर्याद् यच्छन्नघटनामाह--यत्पादपांसुः-यस्याश्चरणरेणुः सुरततेः-देवानां पतेः शिरसि-मस्तके चूर्गशोमां-वासोदश्रियं आचरत्-प्राप्तवानित्यर्थः । सुस्ततेनमन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति भावः । 'चर गतिभक्षणयोः' इति धातोर्लकि अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषकवचनं दिए । 'दिवादावट' (सा० सू० ७०७), 'अप' (सा० स० ६९१), 'वावसाने ' ( सा० स० २४० ) दस्य तः । तथाच आचरत् ' इति क्रियापदम् । कः कर्ता ! । यत्पादपांसुः । “ रेणुर्द्वयोः स्त्रिया धूलिः, पांसुर्मा न द्वयो रजः" इत्यमरः (श्लो० १६६४) का कर्मतापन्नाम् ! । चूर्णशोभाम् । कस्मिन् ? । शिरसि । कस्याः । 'सुरततेः ' सुराणां ततिः सुरततिः तस्याः सुरततेः ' तत्पुरुषः' । यतः यत्पादपासुः कथंभूतः ? । पून:-पवित्रः । चूर्ण तावत् पतं-पवित्रं भवति अयमपि च विशेषोऽस्तीति भावः । पुनर्यच्छब्दघटनामाह--या जैनरानी ततिः इहअत्र जगति अप्रतिमदं-मदेन रहितं, मदस्योपलक्षणत्वात् मदोपलशितैर्मदनादिभिः रहितं साधुननमित्यर्थः, अवति-कर्मशत्रुम्यो रक्षति, मोक्ष प्रापयतीत्यर्थः । ' अव रक्षणे' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् । ' अप् कर्तरि ' (सा० सू० ६९१) इत्यप् । ' स्वरहीनं० ' (सासू० ३६ )। तथाच ' भवति' इति सिद्धम् । अत्रापि ' अवति' इति क्रियापदम् । का की। या । के कर्मतापन्नम् ।। अप्रतिमदम् । कुत्र ! । इह । या किं कुर्वती सती ? । राजयन्ती-शोमा लम्भयन्ती । भव्यानित्यर्थसामर्थ्याद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org