________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका जिनराज्य प्रार्थना--
पूतो यत्पादपांसुः शिरसि सुरततेराचरच्चूर्णशोभा __ या तापत्राऽसमानोऽप्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते यातापत्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥ २ ॥
-स्रग्० ज०वि०-प्रत इति। हे भव्य ! प्राणिन् ! साजनराजी-जिनराजसम्बन्धिनी जिनराजाना. मियं जैनराजीति व्युत्पत्तेः तति:-श्रेणी ते-तब रजः-कर्म प्रविकिरतुतराम्-अतिशयेन निरस्यत्विति क्रियाकारकसम्बन्धः। अत्र 'प्रविकिरतुतराम् । इति क्रियापदम् । का की ? 'ततिः' । किंसम्बन्धिनी ? 'जैनराजी' । किं कर्मतापन्नम् ? ' रजः ।। कस्य ? ' ते '। कुत्र ? ' इह ।। सति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यत्पादपासुः-यस्याश्चरणरेणुः सुरततेः-देवानां पड़ेः शिरसि-मस्तके चूर्णशोभा-वासक्षोदश्रियं आचरत्-कृतवान् प्राप्तवानित्यर्थः । सुरतते मन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति हृदयम् । अत्रापि · आचरत् । इति क्रियापदम् । कः कर्ता ? ' यत्पादपासुः' । कां कर्मतापन्नाम् ? ' चूर्णशोभाम् ' । कस्मिन् ? 'शिरसि ।। कस्याः ? 'सुरततेः' । यतः यत्पादांसुः कथंभूतः ? 'पूतः। पवित्रः । चूर्ण तावत् पवित्रं भवति अयमपि च पवित्रोऽस्तीति भावः । पुनर्यच्छन्दघटनामाह-या जैनराजी ततिः इह-अत्र जगति अप्रतिमदंमदेन रहितं, मदस्योपलक्षणत्वान्दमदोपलक्षितैर्मदनादिभिरपि रहितं, साधुजनमित्यर्थः । अवति कर्मशत्रुभ्यो रक्षांते, मोक्ष प्रापयतीत्यर्थः । अत्रापि च ' अवति । इति क्रियापदम् । का की ? ' या '। कं कर्मतापन्नम् ? ' अप्रतिमदम् ।। कुत्र ? ' इह ' । या किं कुर्वती सती ? 'राजयन्ती' शोभां लभ्भयन्ती । भव्यानित्यर्थसामर्थ्याद् गम्यते । पुनः किं कुर्वती ? 'जयन्ती' न्यकुर्वन्ती । काः कर्मतापन्नाः ? ' हारताराः' हाराः-मुक्तावल्यः तारा:-नक्षत्राणि । कया करणभूतया कृत्वा ? 'कान्त्या' प्रभया । कस्याः ? 'कीर्तेः' यशसः । अथवा कीर्तेः कान्त्या हेतुभूतया । 'हारतारा' हारोज्ज्वला । 'जयन्ती' पराभवन्ती । विपक्षानित्यध्याहारः। या कथंभूता ? ' तापत्रा' तापात् त्रायत इति तापत्रा । पुनः कथं० ? ' असमाना' अनन्यसदृशी । पुनः कथं० ? ' अरता' विरक्ता। रागरहितेत्यर्थः । यद्वा रतं-सम्भोगस्तन्न विद्यते यस्याः सा तथा । पुनः कथं० ? ' यातापत्रासमाना' आपद्-विपत् त्रासस्तु आकस्मिक भयं मान:-अहङ्कारः, ततो याता-गता आपत्रासमाना यस्याः सा तथा । पुनः कथं० ? 'अप्रतिपदमवती' अप्रतिम:-अनन्यसदृशो यो दम-उपशमः स यस्या अस्तीति अप्रतिमदमवती।
१'दपांशुः' इति पाठान्तरम् । २ 'ना प्रति०' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org