________________
स्तुतिचतुर्विंशतिका
[ १२ श्रीवासुपूज्य -
अथ समासः - वसुपूज्यस्यापत्यं वासुपूज्यः, श्रिया युक्तो वासुपूज्यः श्रीवासुपूज्यः, तस्य सं० हे श्री वासुपूज्य || नास्ति वृजिनं पापं यस्य सः अवृजिनः, तस्य सं० हे अवृजिन ! | जिनानां केवलिनां पतिः जिनपतिः, तस्य सं हे जिनपते ।। नूतनश्चासौ आदित्यश्च नूतनादित्यः, नूतनादित्यवत् कान्तिः यस्य स नूतनादित्यकान्तिः, तस्य सं० हे नूतनादित्यकान्ते । । नास्ति माया यस्य सः अमायः, तस्य सं० हे अमाय ! | संसरणं- भ्रमणं संसारः, संसारस्य वासः संसारवासः, न विद्यते संसारवासो यस्य सः असंसारवासः, तस्य सं० हे असंसारवास ! । यद्वा मायासंसारवासौ न विद्यते यस्य सः अमायासंसारवासः, तस्य सं० हे अमायासंसारवास ! | अवन्ति ते अवनाः, अवनेषु वरः अवनवरः, तस्य सं० हे अवनवर ।। " तरसाऽव्ययं बले वेगे" इति कोशः। नवश्वासौ आलानश्च नवालानः, नवालानवद् बाहू यस्य स नवालानबाहुः, तस्य सं० हे नवालानवाहो ! । नमनशीला नम्रा, आ - समन्तात् नम्रा आनम्रा । श्रीणां प्रभवः श्रीप्रभवः, तस्य सं० हे श्रीप्रभव ! | भवस्य भयं भवभयं, तस्मात् भवभयात् । बिभर्ति सा बिभ्रती । भतिं भजन्ति इति भक्तिभाज:, तेषां भक्तिभाजाम् । आरवेण सहिता सारखा | रसायां आलीना रसालीना, अनवरतं निरन्तरं रसालीना वाला यस्याः सा अनवरत - रसालीनवाला । यद्वा श्रियः प्रभवः पुत्रः श्रीप्रभवः, श्रीप्रभवात् भवं श्रीप्रभवभवं; श्रीप्रभवभवं च तत् भयं च श्रीप्रभवभवभयं तस्मात् श्रीप्रभवभवभयात् कामरागजनितभयात् । त्रायताम् इति कर्मोक्तिः । तृतीयान्तः कर्ता प्रथमान्तं कर्म क्रियायामात्मनेपदं भवतीति कर्मोक्तिलक्षणम् । वक्रोक्तिः अपरनाम । अस्यां स्तुती स्रग्धराच्छन्दः ॥ इति वृत्तार्थः ॥ १ ॥
१३०
दे० व्या-पूज्य ! श्रीवासुपूज्येति । अहो इत्याश्वर्ये । हे श्रीवासुपूज्य | त्वया भक्तिभाजां सपर्याकृतां आली - राजि: श्रीप्रभवभवभयात् त्रायतां रक्षतां इत्यन्वयः । 'त्रै पालने' इति धातुः । 'त्रायतां' इति क्रियापदम् । केन कर्त्री ? । त्वया । का कर्मतापन्ना ? | आली । केषाम् ? | 'भक्तिभाजाम् ' भक्ति सेवां भजन्तीति भक्तिभाजः तेषाम् । कस्मात् ? । 'श्रीप्रभवभवभयात् ' श्रीप्रभवात् कामान् भवं जातं यद् भयं साध्वसं तस्मात् । यदा तु श्रीप्रभव ! इति पृथग् जिनामन्त्रणं तदा श्रियो-लक्ष्म्याः प्रकर्षेण भवः - उत्पत्तिर्यस्मात् स तथेत्यर्थः बोध्यः । किंविशिष्टा आली ? | आनम्रा - कृतप्रणामा । पुनः किंविशिष्टा ! | 'सारवा' आरवेणशब्देन सह वर्तमाना, प्रारब्धस्तुतित्वात् । पुनः किंविशिष्टा ? । असौ - प्रत्यक्षदृश्या । पुनः किंविशिष्टा ? । 'अनवरतरसालीनवाला' अनवरतं निरन्तरं रसायां पृथिव्यां लीना-लग्ना वाला:- केशा यस्याः सा तथा । पुनः किंविशिष्टा ? | नवा - कतिपयदिन प्राप्त बोधिः । पुनः किंविशिष्टा ? । बिभ्रती - दधाना । किम् ? । आयासं-परिश्र मम् । ' पूज्य ! ' इति । पूजार्ह :- पूज्यः सर्वेभ्य उत्कृष्टत्वात् । ' अवृजिन !' इति । नास्ति वृजिनं पापं यथ स तस्यामन्त्रणम्, आश्रवद्दाराणां निरोधात् । ' जिनपते ! ' इति । जिनानां - सामान्य के बलिनां पतिः प्रभुः यः स तस्यामन्त्रणम्, तीर्थप्रवर्तकत्वात् । ' नूतनादित्यकान्ते |" इति । नूतन-उद्गच्छन् य आदित्यः- सूर्यः सत् कान्तिः प्रभा यस्य स तस्यामन्त्रणम्, रक्तवर्णशरीरत्वात् । ' अमाय ! इति । नास्ति माया - निकृतिः यस्य स तस्यामन्त्रणम्, कषायादीनां सर्वथोच्छिन्नत्वात् । ' असंसारवास ! ' इति । नास्ति संसारे बासो - सनं यस्य स तस्यामन्त्रणम्, अपुनर्भवावस्थितत्वात् । यथा ( दा) अमायासंसारवासेत्येकमेव प तथा ( दा ) च नास्ति माया संसारे वासो यस्येत्यर्थो बोध्यः । ' अवन ! ' इति । अवतीत्यवनः तस्यामन्त्रणम्, षड्जीवनिकायाभयदायकत्वात् । अन्ये तु मायासंसारवासाभ्यां सकाशात् अवतीत्येकमेव पदं पठन्ति हे बर ! - प्रधान ! | केन ? । तरसा - बलेन वेगेन वा । 'नवालानबाहो !' इति । नवं प्रत्यनं यदालानं-गजबन्धमस्तम्भः तद्वद् बाहु:- भुजो ( बाहू -भुजी ) यस्य स तस्यामन्त्रणम् । एतानि सर्वाणि भगवतः सम्बोधपदानि ॥ इति प्रथमवृत्तार्थः ॥ १ ॥
1
Jain Education International
s
For Private & Personal Use Only
www.jainelibrary.org