________________
जिनस्तुतयः] स्तुतिचतुर्विशतिका
१६ हे पूज्य !-हे पनाह! । 'ऋहलोयॆत् ' (पा० अ० ३, पा० १, सू० १२४) इति ण्यत्। 'बजोः कुधिण्यतोः। (पा० अ० ७, पा० ३, सू० ५२) इति कुत्वप्राप्तौ ' त्यमिपूज्योश्च' न कुत्वं इति निषेधात् कुत्वामावः । हे ' अवृजिन !' नास्ति वृजिनं-पापं यस्य सः अवृजिनः तस्य संबोधनं हे अवृमिन ! आश्रवद्वाराणां निरोधात्।हे 'निनपते! जिनाना पतिः निनपतिः तस्य० संबो। हे 'नूतनादित्यकान्ते'! नूतनः-तत्कालमुदयगिरिशुङ्गमारूढः, उद्गच्छन्नित्यर्थः, एतावता रक्तवर्णो य आदित्यः-सूर्यः तद्वत कान्ति:-छविर्यस्य स तथा तस्य संबो. हे नूतनादित्य० । रक्तद्युतिरित्यर्थः । तथाचोतं- रक्तौ ध पद्मप्रभवासुपूज्यौ " इति हैम्यो नाममालायाम् । हे ' अमाय ' ! न विद्यते माया-निकृतिर्यस्य स तथा तस्य संबोधनं हे अमाय ! । हे ' असंसारवासावन !' संसारे वसनं वासो-रुचा अवस्थानं अवति-रलतीति संप्सारवासावनः, तादृशो न भवति सः असंसारवासावनः तस्य संबो. हे असंसार। हे वर !-प्रधान !"
__“वरोऽभीष्टे देवतादे-वेरो नामातशेङ्गयोः।
श्रेष्ठेऽन्यवत्परिवृती, वरं कश्मीरने मतम् ॥" इति विश्वः । हे ' नवालानबाहो !' नवो-नवीनः य आलानं --करिबन्धमस्तम्मः तद्वद् वाह-मनी यस्य स तथा तस्य सं० हे नवालान । “तोत्रं वेणुकमालानं, बन्धस्तम्भेऽथ शृङ्खले " इत्यमरः (श्लो०१५४९)। हे ' श्रीप्रभः !श्रियो-म्याः प्रभवः-उत्पत्तिर्यस्मात् स तथा तस्य सं० हे श्रीप्रभव ! । अत्र नवेस्यत्र बक्योरैक्यम् ॥ १ ॥
सौ० वृ०-यः श्रेयांसो भवति स वासुपूज्या-देवपूज्यो भवति । अनेन संबन्धेनायातस्य द्वादशश्रीवासुपूज्यजिनस्तुतियाख्यान व्याख्यायते ।
पूज्य ! श्रीवासुपूज्यति । हे 'पूज्य !' हे अर्चनीय ! श्रिया-बतुस्त्रिंशदतिशयलक्ष्म्या युक्त धसुपूज्य. गृपनन्दन !-हे श्रीवासुपूज्य' ! हे 'अवृजिन!' हे पापरहित ! हे 'जिनपते।' जिनस्वामिन् ! नूतनः नवीन उद्गत्यरो य आदित्यः-सूर्यः तद्वत् कान्तिः-प्रभा यस्य स नूतनादिन्यकान्तिः, तस्य सं० हे 'नूतनादित्यकान्से!' उपमा 'पंउमपहवासुपुज्जा रत्ता' इति आगमवचनात् । हे 'अमाय!' निर्दम्भ!। हे असंसारबास!। यद्रा ('अमायसंसारवास!') मायासंसारवासरहित हे 'अवनवर रक्षकप्रधान ! नवं-नबीनं आलानं-हस्तिबन्धस्तम्भः युगं वा तद्वद नाहू-भुजौ यस्य स नवालानबाहुः, तस्य संबो० हे 'नवासा. नबाहो'। हे 'श्रीप्रभव!' सर्वलक्ष्म्युत्पत्तिस्थान! । त्वया असौ-प्रत्यक्षहश्यमाना भक्तिभाजां-भक्तिमतां प्राणिनाम् आली-श्रेणिभवभयात्-संसारभीतेः सकाशात् त्राथताम् इत्यन्वयः । 'त्रायताम्' इति क्रियापदम् । केन कत्रों ?।' त्वया भवता । "त्रायतां' रक्षताम् । का कर्मतापना ?।'आली, श्रेकि केषाम् ? । 'भक्तिभाजाम् । कस्मात् ? । 'भवभयात्' । कथम् ? । 'तरसा' बलेन वेगेन चारविशिष्टा भक्तिभाजां आली ? । अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीचा-लुठिता वासा केश यस्याः सा 'अनवरतरसालीनवाला' भगवत्पादप्रणतत्वात् । अत्र बमकत्वात् बक्योरैक्य । पुका किविशिष्टा भक्तिभाजा आली?'नवा' प्रत्यया अस्मदादिवत शीघ्रबोधप्राप्ता । (पुमा किं० ली। 'आनम्रा' कृतप्रणामा । पुनः किं० आली? । 'आयासं विभ्रती' परिश्रमं दधाना)। 'अहो' इत्याच कोमलामन्त्रणे वा । पुनः किं० भाक्तिभाजां आली।। आरवा-शब्दस्तेन सहिता 'सारवा' सन स्तुतिपरा इत्यर्थः । यद्वा श्री:-लक्ष्मीः तस्याः प्रभवः-नन्दनः कामस्तस्माद् भवं-उत्पनं यत् पर्व तस्मात् श्रीप्रभवभवभयात् त्रायताम् । इति पदार्थः॥
१ पद्मप्रभवासुपूज्यौ रक्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org