________________
१५८ स्तुतिचतुर्विशतिका
[१२ श्रीवासुपूज्यअथ समासः-श्रियोपक्षितो वासुपूज्यः श्रीवासुपूज्यः । तत्पुरुषः' । तत्सम्बोई श्रीवा० । न विद्यते जिनं यस्य सोऽवजिनः 'बहुव्रीहिः । तत्सम्बो. हे अजिन !| जिनानां पतिर्जिनपतिः 'तत्पुरुषः। तत्सम्बो० हे जिन । नूतनश्वासावादित्यश्च नूत. 'कर्मधारयः। नूतनादित्यस्येव कान्तिर्यस्य स नूत० 'बहुव्रीहिः' । तत्सम्बो० हे नूत० । न विद्यते माया यस्य सोमायः 'बहुव्रीहिः । तत्सं० हे अमाय !। संसारे वासः संसारवासः तत्पुरुषः' । संसारवासमवतीति संसा. तत्पुरुषः । न संसारवासावनः असंसा ० 'तत्पुरुषः । तत्सम्बो. हे असं नश्वासावालानश्च नवालानः 'कर्मधारयः'। नवालानवद् बाहू यस्य स नवा० 'बहुव्रीहिः । तत्सम्बो. हे नवा० । श्रियः प्रभवो यस्मात् स श्रीप्रभवः 'बहुव्रीहिः ।। तत्सम्बो० हे श्रीप्रभव ! । भवस्य भयं भवभयं ' तत्पुरुषः । तस्मात् भव० । भक्ति भजन्तीति भक्तिभाजः 'तत्पुरुषः' । तेषां भक्ति० । सहारवेण वतेते या सा सारवा 'तत्पुरुषः' । रसायामालीना रसालीना 'तत्पुरुषः' । रसालीना वाला यस्याः सा रसा० 'बहु० ।। अनवरतं रसालीनवाला अनवरतर० ' तत्पुरुषः । तत्सम्बो० ॥ इति काव्याः ॥१॥
सि० ० ---पूज्य ! श्रीवासुपूज्येति । अहो इत्यामन्त्रणे ! वसुपज्यस्य अपत्यं वासुपूज्यः, वसवोदेवविशेषाः तेषों पूज्यो वसुपज्यः स एव वासुपूज्यः । प्रज्ञायण । गर्भस्थेऽस्मिन् वसूनि-रत्नानि तैः अभीक्ष्ण वासको राजकुलं पनितवानिति वा वासुपूज्यः तस्य संबोधनं हे वासुपूज्य ! । त्वया भक्तिभानां-मक्तियुक्तानां असौ-प्रत्यक्षा आली श्रेणिः तरसा--बलेन वेगेन वा भवभयात्-संसारमीते:--सकाशात् त्रायतां-रक्ष्यतामित्यर्थः । 'त्रैङ् पालने' धातोः कमणि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् । 'सन्ध्यक्षराणामा' (सा०सू०८०३) इत्यात्वम् । ' यक् चतुर्प' (सा० सू० ११६९ ) इति यक् । तथाच 'त्रायताम्' इति सिद्धम् । अत्र • त्रायताम्' इति क्रियापदम् । केन का ? । त्वया । का कर्मतापन्ना ! | आली । केषाम् ? । ' मक्तिमाजाम' । मक्तिः-पूज्येष्वनुरागः श्रद्धा वा तां भनन्ति ये ते भक्तिभानः तेषाम् । “ श्रद्धारचनयोक्तिः" इत्यमरः (?)। कस्मात् ! । ' भवभयात् ' मवः-संसारः तस्य भयं-भीतिः तस्मात् । केन ! । तरसा । "तरसा बले च वेगे च " इति विश्वः । कथंभूता आली ? । असौ । अदस्शब्दस्य असौ रूपम् । अदसः 'त्यादेष्टे :०' (सा०सू० १७५) इत्यत्वे कृते अदो, 'दः सः' (सा०सू० ८९७) इति दकारस्य च सत्वे, 'सेरौ (सा० म० ३०५) इति सेरौकारादेशे च कृते 'असौ' इति सिद्धम् । किं कुर्वती । विभ्रती-धारयन्ती। कम् ! । आयासं-श्रमम् । अनवरतसंसारपरिभ्रमणोत्पन्नखेदं विभ्रांति फलितार्थः । पुनः कथंभूता !। आनम्रा-आनमनशीला । पुनः कथंभूता । सारवा-सशब्दा, मधुरस्वरेण स्तुतिं कुर्वतीत्यर्थः । पुनः कथंभूता ।।' अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीना-आश्लिष्टाः वाला:केशा यस्याः सा । नमनसमये केशपाशस्य भुवि विलुठनेन तस्या भक्त्यतिशयो ध्वनितः । पुनः कथंभूता। नवः-कतिपयदिनप्राप्तबोधिः । अवशिष्टानि सर्वाणि श्रीवासुपूज्यस्य संबोधनपदानि । तेषां व्याख्या त्वेवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org