________________
१२ श्रीवासुपूज्यजिनस्तुतयः अथ श्रीवासुपूज्यवन्दनम्
पूज्य ! श्रीवासुपूज्यावृजिन ! जिनपते ! नूतनादित्यकान्ते
ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो !। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ! ॥१॥
-स्रग्धरा (७,७,७) ज० वि० - पूज्य ! श्रीवासुपूज्यति । अहो श्रीवासुपूज्य! श्रिया चतुस्त्रिंशदतिशयरूपयोपलतितो वासुपूज्यः श्रीवासुपूज्यः तत्सम्बोधनं अहो श्रीवासुपूज्य ! त्वया भक्तिभाजां-भक्तियुक्तानाम् आराधकानामितियावत् असौ-प्रत्यक्षकक्षा आली-श्रेणी तरसा-वलेन वेगेन वा भवभयात्संसारभीतेः त्रायता-रक्ष्यतामिति क्रियाकारकसम्बन्धः । अत्र 'त्रायताम्' इति क्रियापदम्।केन कत्रों ? 'त्वया'। का कर्मतापना? 'आली' । केषाम् ? 'भक्तिभाजाम्। कस्मात ? 'भवभयात् । केन ? ' तरसा' । भक्तिभाजामाली कथंभूता ? ' असौ'। किं कुर्वती ? 'बिभ्रती' धारयन्ती । किं कर्मतापन्नम् ? ' आया। श्रमम् । अर्थात् जन्मजरामरणलक्षणक्लेशम् । पुनः कथंभूता ? ' आनम्रा ' आनमनशीला । पुनः कथं० १ 'सारवा' सशब्दा । मधुरस्वरेण स्तुति कुर्वन्तीत्यर्थः । पुनः कथं ? ' अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्याम् आलीना-आश्लिष्टा वाला:-केशा यस्याः सा तथा । एतावता आनम्रायाः सत्या एतस्याः केशपाशो भुवि लुठति । एतेन भक्तेरतिशयः समसूचि । पुनः कथं० १ 'नवा' अभिनवाकतिपयदिनप्राप्तबोधिः अस्मदादिवत् । शेषाणि सर्वाण्यपि श्रीवासुपूज्यजिनेश्वरस्य सम्बोधनानि । तद्वथारख्या त्वेवम्-'हे पूज्य !' अर्चनीय ! । हे ' अवृजिन जिनं-पापं तेन रहित । हे 'जिनपते ! जिनेश्वर !। हे 'नूतनादित्यकान्ते' ! नूतनो-नवस्तत्कालमुदयगिरिशृङ्गमाश्रित एतावता रक्तवर्ण एवंविधो य आदित्यो-रविस्तद्वत् कान्तिः-प्रभा यस्य स तथा । रक्तद्युतिरित्यर्थः । “पंउमाभवासुपूज्जा रत्ता" इत्यागमात् ( आवश्यकनियुक्ती, गा० ३७६ )। हे 'अमाय!" मायारहित ! । हे ' असंसारवासावन !' संसारवासं-भव वस्थानं अवति-रक्षति स्वीकरोतीतियावत् स संसारवासावनः, तादृशो न भवति तत्सम्बो. हे असंसार० । हे 'वर!'प्रधान !। हे 'नवालानबाहो'!नवो-नवीनो य आलान:-करिवन्धनस्तम्भः तद्वद् बाहू-भुजौ यस्य स तथा, प्रबलप्रलम्बबाहुरित्यर्थः, तत्सम्बो० हे नवा० । हे 'श्रीपभव !' सम्पदुत्पत्तिस्थानक ! । अत्र नवेत्यत्र बवयोरैक्यम् ॥
१ ' भवत्रयात् ' इत्यपि पाठः समीचीनः । २ पनाभवासुपूज्यौ रफो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org