________________
१२६
स्तुतिचतुर्विंशतिका
[ ११ श्रीश्रेयांस
के - पानीये जायते इति कजानि, कजवत् राजन्ते इत्येवंशीलाः कजराजिनः तैः कजराजिभिः । इति तुरीयवृत्तार्थः ॥ ४ ॥
श्रीश्रेयांसजिनेन्द्रस्य स्तुतेरर्थः स्फुटीकृतः । सौभाग्य सागराख्येणा-ऽऽचार्येणार्यहितैषिणा ॥ ॥ इत्येकादशजिनस्तुतिः ॥ ४ । ११ । ४४ ॥
देवा-धूतपति । महाकाली देवी प्रजयति- सर्वोत्कर्षेण वर्तते इत्यन्वयः । ' जि जये ' धातुः । 'प्रजयति' इति क्रियापदम् । का कर्त्री ? | महाकाली देवी । किंविशिष्टा महाकाली ? | उपलक्षिता इत्यध्याहारः । कैः ? । करैः । अन्यथा करैरित्यलग्नकं स्यात् । किंविशिष्टैः करैः । ' धृतपविफलाक्षालीघण्टे : ' पत्रिः--वज्रं फ स्पष्टं अक्षाली - जपमालिका घण्टा प्रसिद्धा एतेषां पूर्व 'द्वन्द्वः', ततो धृता गृहीताः पविफलाक्षालीघण्टा यैः इति विग्रहः । पुनः किंविशिष्टैः ? । 'कजराजिभिः ' कजं कमलं तद् राजन्ते इत्येवंशीलाः कजराजिनः तैः । पुनः किंविशिष्टा देवी ? । ' कृतबोधितप्रजयतिमहा ' बोधिता - बोधिं प्रापिता प्रजा यैः ते बोधितप्रजाः ते च से
चेति पूर्व (कर्म) समासः, कृतो बोधितप्रजयतीनां महः उत्सवो ययेति 'तृतीया बहुव्रीहिः' । पुनः कीदृशी १ । अध्यासीना-आरूढा | कम् ? । मर्त्याधिपं - पुरुषप्रकाण्डम् । अत्र अधेः 'शीस्थास्आधारे' इत्यासुधातुयोगे आधारस्य कर्मत्वम् । किं कुर्वती देवी ? । दधती - बिभ्रती । काम् ? । 'निजतनुलताम्' । तनुरेव लता तनुलता, निजा चासौ तनुलता च निजतनुलता, तां निजतनुलताम् । किंविशिष्टां निजतनुलताम् ? । अपरिक्षताम्अदूषिताम् | कैः ? | 'अर्त्याधिपङ्कजराजिभिः ' अर्तिः- पीडा आधिः- मानसी व्यथा पङ्कः - शरीरमलः जरावार्धक्यम् आजिः - सग्रामः एतेषां 'द्वन्द्वः ' तैः । " स्यादाधिर्मानसीव्यथा " इत्यभिधानचिन्तामणि: (१) ॥ इति चतुर्थवृत्तार्थः । हरिणीच्छन्दः । “नसमरसलागः षड्वेदैर्हयैर्हरिणी मता " इति तल्लक्षणम् ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org