________________
१२५
स्तुतिचतुर्विशतिका फलिन्यां तु फली प्राहुस्रिफलायां फलं क्वचित्" इति विश्वः । “फलं फले धानबीजे, निष्पत्ती भोगलामयोः " इति केशवः । पुनः कथंभूतैः करैः । कजराजिमिः' कात्-जलात् जायते इति कनं-कमलं तद्वद् रानन्तीत्येवंशीलाः कजराजिनः, तैः कजरानिमिः । महाकाली किं कुर्वाणा ! । दधती-विभ्राणा । काम् ! । 'निजतनुलतां' तनुरेव लता तनुलता, निना चासौ तनुलतेति ‘कर्मधारयः' । कयंभूतां निजतनलताम् ! । ' अपरिक्षतां' न परिक्षत! अपरिक्षता तां, अदूषितां इत्यर्थः । कैः कृत्वा । ' अाधिपङ्कजराजिभिः ' अतिः-पीडा आधिः-मनोव्यथा पक्को-मल: " अस्त्री पकं पुमान् पाप्मा, पापं किल्विषकल्मषं" इत्यमरः ( श्लो०२१०), " पङ्कः कर्दमपापयोः " इति विश्वः, जरा-विस्रप्ता आनिः-संग्रामः, " समे मांशे रणेऽप्यानिः" इत्यमरः ( श्लो०२३९८ ), एतैः अर्तिश्च आधिश्च पङ्कश्च जरा च आनिश्च अाधिपकनराजयः तैः कृत्वा इतरेतर द्वन्द्वः । " पुंस्याधिर्मानसी व्यथा" इत्यमरः (श्लो० ४ १८)। पुनः कथंभूताम् ? । अध्यासीनां-आरूढाम् । कम्?। 'माधिएं' मानां मत्येषु वा अधिपो माधिपः तं, पुरुषप्रकाण्ड मित्यर्थः । 'अधेः शीङ् स्थास आधार:' (सिद्ध० अ०२, पा०२, सू०२०) इत्याधारस्य कर्मत्वम् । हरिणीच्छन्दः । “नसमरसला गः षड्वेदैर्हयैर्हरिणी मता" । इति च तल्लक्षणम् ।।
॥ इति श्रीमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्य० श्रीश्रेयांसजिनस्तुतिवृत्तिः ॥११॥ सौ० वृ०-धृतपवीति । महाकालीनाम्नी देवी प्रजयति इत्यन्वयः। 'प्रजयति' इति क्रियापदम् । का की ? | 'महाकाली' । 'प्रजयति' प्रकर्षेण जयं प्राप्नोति । किंविशिष्टा महाकाली ? ।' उपलक्षिता' ज्ञाता । उपलक्षिता इति पदं अध्याहार्यम् । कैः कृत्वा ! । 'करैः ' हस्तैः। किंविशिष्टैः ।। धृता-रक्षिताः पविः-वज्रं (फलं-) मातुलिङ्गादि अक्षाली-अक्षमाला घण्टा-वाधविशेषो यैस्ते तैः ‘धृतपविफलाक्षालीघण्टैः' । पुमः किंविशिष्टा महाकाली ? । ( कृता-) निष्पादिता बोधिताः-प्रतिबोधिताः प्रजा-लोका यैः ते तादृशा ये यतयः तेषां महः-उत्सवः पूजा वा यया सा ‘कृतबोधितप्रजयतिमहा '। पुनः महाकाली किं कुर्वाणा ? । 'वधती ' धारयन्ती। कां कर्मतापनाम् । 'निजतनुलता' स्वशरीरवल्लीम् । किविशिष्टां निजतनुलताम्? । 'काली' श्यामाम् । पुनः किंवि० निजतनुलताम् ? 'अपरिक्षतां' अपरिद्रुताम् । अति:-पीडा आधिः-मानसी व्यथा पक्को-मलः जरा-विससा आजिः-संग्रामः तैः 'अाधिपङ्कजराजिभिः' । पुनः किं० महाकाली ? । 'अध्यासीना' आरूढा। कं कर्मतापनम् । 'माधिपम् ' मानवप्रवरम् । नरवाहनामित्यर्थः । किंविशिष्टैः करैः ? । 'कजराजिभिः ' पद्मवद् राजमानैः । इति पदार्थः ।।
अथ समासः-पविश्व फलं च अक्षाली च घण्टा च पविफलाक्षालीघण्टाः, तैः धृतपविफलाक्षालीघण्टैः । बोधिताः प्रजा यैस्ते बोधितप्रजाः, बोधितप्रजाश्च ते यतयश्च बोधितप्रजायतयः, कृतः बोधितप्रजयतीनां महो यया सा कृतबोधितप्रजयतिमहा । अर्तिश्च आधिश्च पङ्कश्श जरा च आजिश माधिपजराजयः तैः माधिपङ्कजराजिभिः । तनुरेव लता तनुलता, निजा चासौ तनुलता च निज. तनुलता,तां अधि-आश्रित्य आसीना अध्यासीनां तां अध्यासीनाम्। अधिशीस्थासामाधारः कर्म स्यात्' इति कणि द्वितीया । न परिक्षिता अपरिक्षिता, (तां अपरिक्षिताम्) । मर्त्यस्य अधिपो माधिपः, तं मयाधिपम् ।
१. अधिशास्य सा कर्म ' इति तु सारस्वते ( सू०४२९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org