________________
१२४
स्तुतिचतुर्विंशतिका
[ ११ श्रीश्रेयांस
1
,
बज्रं फलं - पुष्पोत्तरकालभाविवस्तुरूपं अक्षाळी- अक्षमाला घण्टा - वाद्यविशेषः, धृता - भाषेयीकृताः पविफलाक्षाली घण्टा यैस्ते तथा । एतस्याः चत्वारः कराः पविप्रभृतीनि च चत्वारि वस्तूनि, तेनैकैकेन करेण एकै वस्तु धृतमित्यवसेयम् । करैः पुनः कथंभूतैः १ ' कजराजिभिः ' कर्ज - कमलं तद्वद् राजिभिः - राजनशीलैः । महाकाली किं कुर्वाणा १ ' दधती ' बिभ्राणा । कां कर्मतापन्नाम् ? 'निजतनुलताम्' स्वाङ्गयष्टिम् । कथंभूतां निजतनुलताम् ? ' अपरिक्षताम् ' अविध्वस्ताम् । अदूपितामित्यर्थः । कैः कृत्वा ? ' अयोधिपङ्कजराजिभिः' अर्तिः- पीडा आधिः- मनोरोगः पडूने-मल: जरा-स्थाविरम् आजि:- सङग्रामः एतैः । पुनः कथंभूताम् ? 'कालीम्' श्यामलाम् । पुनः कथंभूताम् ? 'अध्यासीनाम्' आरूढाम् । कं कर्मतापन्नम् ? 'मत्योधिपम् ' पुरुषप्रकाण्डं, नरवाहनामित्यर्थः ॥ अथ समासः - पविश्व फलं च अक्षाली च घण्टा च पवि० ' इतरेतरद्वन्दः । धृताः पत्रिफलासालीघण्टा यैस्ते धृतपवि० ' बहुव्रीहि:' । तैर्धृतपवि० । बोधिताः प्रजा यैस्ते बोधितप्रजाः ' बहुव्रीहिः ' । बोधितप्रजाश्च ते यतयश्च बोधितप्रजयतयः ' कर्मधारयः । बोषित प्रजय. तीन महो बोधि ० ' तत्पुरुषः । कृतो बोषितमजयतिमहो यया सा कृतबोधि ० ' बहुव्रीहि: ' अर्तिथ आधिश्च पङ्कश्च जरा च आजिश्व अत्यधिपङ्कजराजय: ' इतरेतरद्वन्द्वः ' । तैरस्याधि ० | तनुरेव लता तनुलता ' कर्मधारयः ' । निजस्य तनुलता निजतनु० ' तत्पुरुषः । यदि निजा चासो तनुकताच निज० 'कर्मधारयः' । तां निज० । न परिक्षता अपरिक्षता ' तत्पुरुष ' । तां अपरिक्षताम् । मर्त्यानां मर्त्येषु वा अधिपो मर्त्याधिपः 'तत्पुरुष:' । तं मर्त्या ० | कात् जायत इति कजं ' तत्पुरुषः ' । कजवद् राजिनः कज० तत्पुरुषः ' । ' । तैः कजराजिभिः ॥ इति
"
काव्यार्थः ॥ ४ ॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीश्रेयांस जिनस्तुते व्याख्या ॥ ११ ॥
सि० ० - धृतपवीति । महाकाली महाकालीनाम्नी देवी प्रजयति- सर्वोत्कर्षेण वर्तत इत्यर्थः । प्रपूर्वक ' जि जये ' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' प्रजयति ' इति क्रियापदम् । का कर्त्री ? | महाकाली । कथंभूता महाकाली ? । 'कृतबोधितप्रजयतिमहा ' बोधिताः - प्रतिबोधिताः प्रजा-लोक यैस्ते बोधितप्रजाः यतयः तेषां कृतो विहितो महः - उत्सवः पूजा वा यया सा कृत ० । पुनः कथंभूता ! । उपलक्षितेत्यध्याहारः । कैः कृत्वा ? । करैः - हस्तैः । तथाच करैः उपलक्षिता इति देव्या भिन्नमेव विशेषणम् । कथंभूतैः करैः । । ' धृतपविफलाक्षालीघण्टैः' पविः - वज्रं फलं - पुष्षोत्तरकालमा विवस्तुरूपं अक्षाली - जपमाला घण्टा - वाद्यविशेषः पविश्व फलं च अक्षाळीच घण्टा च पविफलाक्षालीघण्टा: ' इतरेतरद्वन्द्वः', ततो धृता - गृहीता पविफलाक्षाळीघण्टा यैस्ते तथा तैः तस्याचतुष्करत्वेन प्रतिकरमेकैकवस्तुधारणादिति ज्ञेयम् ।
" फळं हेतुसमुत्थे स्यात्, फलके व्युष्टिलाभयोः । जातीफलेऽपि कक्कोले, सस्यवाणाप्रयोरपि ॥ "
Jain Education International
ܕ
For Private & Personal Use Only
www.jainelibrary.org