________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
अर्हन्तः, अर्हता नाथाः अहवाथाः, अहन्नाशानां आगमः अर्हनाथागमः, तस्य सं० हे अर्हनाथागम ! । आनता:-प्रणता भूपतयो यस्याः सा आनतमुपतिः, तां आनतभूपतिम् । मतिः विद्यते येषां ते मतिमन्तः, तेषां मतिषताम् । सन् नाशो येषां ते सखाशाः, तेषां सनाशानाम् । नराणां सम्पत् नरसम्पद, तां नरसम्पदम् । इति तृतीयवृत्तार्थः॥३॥
दे०व्या०-भवजलनिधीति। हे अहन्नाथारम!-तीर्थरागम! त्वं मतिमता-प्रेक्षावां नरसम्पदं-मामवद्धिं सदा-निरन्तरं यथा स्यात् तथा तनु-विस्तारय इत्यन्वयः । 'तनु विस्तारे' धातुः । 'तनु' इति क्रियापदम । का का? । स्वम् । कां कर्मतापन्नाम् । नरसम्पदम् । केषाम् ? । 'मतिमताम्' मतिः वियते येषां ते मतिमन्तः, तेषां मतिमताम् । किंविशिष्टा नरसम्पदम् ? । मता-वाञ्छिताम् । कस्मिन् ! । 'तनुमति' तनुः-शरीरं विद्यते यस्य स तनुमान् तस्मिन् । किंविशिष्टाम् ? | आनतभूपतिम्' आ-समन्तात् नता:-प्रहीभूताः भूपतयःराजानो यस्याः सा ताम् । किविशिष्टानां मतिमताम् ? । 'सन्नाशानाम्। सन्-विद्यमानो नाशो-मरणं येषां से तथा तेषाम् । अल्पायुषामिति फलितार्थः । पुनः किंविशिष्टानाम् ? ।' सन्नाशानाम् ' सन्ना-क्षीणा आशा.. मनोरथो येषां ते तथा तेषाम् । किं कुर्वतां मतिमताम् । 'ससभिलषताम् ' आकाङ्क्षताम् । किम् । पदस्थानकम् । किंविशिष्टं पदम् । 'सदानरसम् ' दानस्य-वितरणस्य रस:-अभिलाषः तेन सह वर्तते यत् तत् । 'भवजलनिधिभ्राम्यजन्तुबजायतपोत !' इति। भवः-संसारः स एव जलनिधिः-समुद्रः तस्मिन् भ्राम्यन्तःभ्रममाणा ये जन्तुबजाः-प्राणिसमूहाः तेषां आयतः-विपुल: पोत इव पोतः-यानपात्रं यः स तस्यामन्त्रणम् । इति तृतीयवृत्तार्थः॥३॥
श्रीमहाकालीदेव्या विजयः
धृतपविफलाक्षालीघण्टैः करैः कृतबोधित
प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिभिः ॥ ४॥११॥
-हरिणी ज० वि०-धृतपवीति । महाकाली-महाकारयभिषा देवी प्रजयति-प्रकर्षेण जयमासादयतीति क्रियाकारकसम्बन्धरचना । अत्र 'प्रजयति । इति क्रियापदम् । का की ? ' महाकाली । कथंभूता ? 'कृतबोधितप्रजयतिमहा ' पोधिता:-प्रतिबोधिताः प्रजा-लोका यस्ताहशा ये यतयः-साधवस्तेषां कृतो-विहितो महः-उत्सवः पूजा वा यया सा तथा । कैः कृत्वा ?
करैः । पाणिभिः करणभूतैः कृत्वा । यतीनां उत्सवं पूजा वा करोतीत्यर्थः। यदिवा उपलक्षितेति पदाध्याहारात् करैरुपलक्षितेति भिन्नमेव विशेषणम् । करैः कयंभूतः १ वृतपविफलाक्षालीघण्टैः पवि:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org