SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ स्तुतियतुविशतिका [११ श्रीश्रेयांसकर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । तनादेरुप् ' (सा०म० ९९७), ' ओर्वा है: ' (सा०म०९८१) इति हेलोपः । तथाच · तनु' इति सिद्धम् । अत्र 'तनु' इति क्रियापदम् । कः कर्ता । त्वम् । किं कर्मतापन्नम् ! । पदम् । “ पदं व्यवसितत्राण-स्थानलक्ष्मानिवस्तुष" इत्यमरः (श्लो०२५२१) । कथंभूतम् । सदानरसम् । कथम् ! । सदा । केषाम् ! । मतिमताम् । कथंभूताना मतिमताम् ! ।' सन्नाशानां ' सन्नाःक्षीणाः विशीणी वा आशा-मनोरथा येषां ते तथा तेषाम् । पुनः कथंभूतानाम् ! ।' सन्नाशानां ' सन्-विधमानो नाशो-मरणं येषां ते तथा तेषाम् । “सत् प्रशस्ते विद्यमाने" इति विश्वः । अल्पायुषामित्यर्थः । मतिमता किं कुर्वताम् ! । सममिलषतां-आकाङ्क्षताम् । काम् ? । ' नरसम्पदं । नराणां सम्पत् नरसम्पत् ताम् । कथंभूतां नरसम्पदम् ! । 'आनतभूपति ' आनताः-प्रणताः भूपतयो-राजानो यस्यां सा ताम् । पुनः कथंभूताम् ! । मतां-समताम् अभीष्टामितियावत् । कस्मिन् ! | · तनुमति । तनुर्विद्यते यस्य स तनुमान् तस्मिन् , प्राणिनीत्यर्थः । तथाच ये मतिमन्तो मरणकाले नरसम्बधिनी सम्पदं वाञ्छन्ति तेषां त्वं तादृशं स्थानं देहि, यत्र दानरसो भवतीति वाक्यार्थः । अवशिष्ट त्वेकं संबोधनम् । तस्य चायमर्थ:--' हे भवनलनिधिभ्राम्यजन्तुबनायतपोत ! ' मवः-संसारः स एव दुरुत्तरत्वात् जलनिविः-समुद्रः तत्र भ्राम्यन्पर्यटन् यो जन्तूनां-प्राणिनां वनः-समूहः तस्। आयतः-विस्तीर्णः स चासौ पोत इव पोतो-यानपात्रं तस्य संबोधनं हे मव० । “ यानपात्रे शिशौ पोतः” इत्यमरः ( श्लो०२४९४) । " पोतः शिशी बहिन च, गृहस्थाने च वाससि " इति मेदिनी ॥३॥ सौ०१०-भवजलनिधीति। भव-संसारः चातर्गतिकलक्षण. स एव जलनिधिः-समतः तस्मिन भ्रमन्तः- पर्यटन्तो ये जन्तवः-प्राणिनः तेषां व्रजः-समूहः तस्य तारणे आयतो-विस्तीर्णः पोत इव पोत:यानपात्रं, तस्य सं०'हे भवजलनिधिभ्राम्यजन्तुबजायतपोत !' । अर्हन्तो-वीतरागा:-केवलज्ञानिनः तेषां नाथा:-तीर्थकराः तेषां आगमः-सिद्धान्तः तस्य सं० हे ' अर्हनाथागम'। त्वं मतिमतांविदुषां सदा-सर्वदा सदानरसं दानहर्षेण सहितं पद-स्थानं तनु इत्यन्वयः। 'तनु' इति क्रियापदम् । का कर्ता ।। ' त्वम् ' । 'तनु' विस्तारय । किं कर्मतापन्नम् ।। पदम् ' । केषाम् ! । मतिमताम्' पण्डितानाम् । कथम् ?। 'सदा'। किंविशिष्टानां मतिमताम? । सन्ना:-क्षीणा आशा-मनोरथा येषां ते तथा तेषां, यद्वा मतिं सम्पदं वा नर इत्यन्वयः, 'नर' इति क्रियापदम् । तथा नराणां सम्पदं नरसम्पदं वा । किविशिष्टां नरसम्पदं मतिं वा ? आनता:-प्रणता भूपतयः यस्यां सा आनतभू तिः, तां 'आनतभूपतिम्' । पुनः किंवि० । 'मता' अभिमताम् । कस्मिन् ! । 'तनुमति' प्राणिनि । पुनः किंवि० मतिमताम् ? । सन्-विद्यमानःप्रशस्तो वा नाशः-अन्तो येषां ते सत्राशाः तेषां 'सन्नाशानाम् । इति पदार्थः ।। अथ समासः-जलानि निधीयन्ते अस्मिन् इति जलनिधिः, भव एव जलनिधिः भवजलनिधिः, मवजलनिधौ भ्राम्यन्तः भवजलनिधिभ्राम्यन्तः, भवजलनिधिभ्राम्यन्तश्च ते जन्तवश्च भवजलनिधिभ्राम्यजन्तवः, भवजन्तूनां व्रजः भवजलनिधिभ्राम्यज्जन्तुव्रजः, आयतश्चासौ पोतच आयतपोतः भवजवजस्य आयतपोतः भवज व्रजायतपोतः, तस्य (सं०) हे भवजलनिधिभ्राम्यजन्तुबजायतपोत।।हेइत्यामन्त्रणपदम्। तनुः-शरीर विद्यते यस्यासी तनुमान, तस्मिन् तनुमति । सन्ना:-क्षाणा आशा येषां ते सनाशाः, तेषां समाशानाम् । दानस्थ रसः दानरसः, दानरसेन सहितं सदानरसम. तर सदानरसम् । सम्यक् प्रकारेण अभिलषन्तः तेषां समभिलषताम् । सुरादिकृतां पूजा अर्हन्ति १ अशुद्धस्थलमेतत् , किन्तु के कर्तुस्तात्पर्यविषयकाः शन्दा इति प्रत्यन्तराभावान निवेतुं शक्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy