________________
१२१
जिनस्तयः]
स्तुतिचतुर्विशतिका ज० वि०-भवजलनिषीति । हे इत्यामन्त्रणे । अहेबाथागम !-जिनेन्द्रसिद्धान्त ! सं मतिमतां-मनीषिणां जनानां सदा-सर्वदा 'सदानरसं' सह दानरसेन द्रव्यवितरणामिकाषेण वर्तते यत् वत् तथा तादृशं पदं-स्थानकं तनु-विस्तारय-देहीति क्रियाकारकसंयोगः। अत्र 'तनु' इति क्रियापदम् । कः कर्ता? 'त्वम्। किं कर्मतापन्नम् ? 'पदम्।। कथंभूतम् ? 'सदावरसम्' । कथम् ? 'सदा । केषाम् ? मतिमताम्। । कथंभूतानां मतिमताम् ? 'समाशानाम्' सना-विशीर्णाः क्षीणा वा आशा-मनोरथा येषां ते तथा तेषाम् । पुनः कथंभूतानाम् ? 'समाशानाम् । सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् । अल्पायुषामित्यर्थः । मतिमता किं कुर्वताम् ? ' समभिलषताम् । आकाङ्कताम् । कां कर्मतापन्नाम् ? ' नरसम्पदम् । मनुष्यविभूतिम् । नरसम्पदं कथंभूताम् ? ' आनतभूपतिम् ' आनता:-प्रणताः भूपतयोराजानो यस्यां सा तथा ताम् । पुनः कथंभूताम् ? ' मताम् । अभीष्टाम् । कस्मिन् ? 'तनुमति' प्राणिनि । अयं वाक्यार्थ:-ये मतिमन्तो मरणकाले नरसंबन्धिनी सम्पदमभिलषन्ति तेषां त्वं तादृशं स्थानं देहि यत्र क्षनरसो भवतीति । अवशिष्टं त्वेकं संबोधनं तस्यार्थस्त्वयम्-'हे भवजलनिषिभ्राम्यजन्तुबजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वाज्जलनिधिः-समुद्रः तत्र माम्यन्-पर्यटन यो जन्तुव्रजः-माणिसमुदायः तस्यायतपोत इव-दीर्घयानपात्रमिवायतपोतः तत्संबो० हे भवजल०॥
अथ समास:-जलानां निधिः जलनिधिः । तत्पुरुषः । भव एव जलनिधिः भव० कर्मधारयः । भवजलनिधौ भ्राम्यन् भव० 'तत्पुरुषः' । जन्तूनां व्रजो जन्तुव्रजः ' तत्पुरुषः। भवनळनिधिभ्राम्यंचासौ जन्तुव्रजश्च भवजल० 'कर्मधारयः । आयतश्चासौ पोतच आयतपोतः • कर्मधारयः । । भवजलनिधिभ्राम्यज्जन्तुव्रजस्य आयतपोतः भवजल. ' तत्पुरुषः ।। तत्संबो० हे भवजल । सबा आशा येषां ते सन्माशाः ‘बहुव्रीहिः' । तेषां समाशानाम् । नरस्य सम्पदं नरसम्पदम् ' तत्पुरुषः ।। अर्हता नाथा अहन्नाया: 'तत्पुरुषः । अहन्नाथानां भागमः अई० ' तत्पुरुषः ।। तत्संबो० हे अहं० । भुवः पतयो भूपतयः ' तत्पुरुषः ।। आनता भूपतयो यस्यां सा आनतभूपतिः ‘बहुव्रीहिः । तामानतभूपतिम् । सन् नाशो येषां ते सन्नाशाः ' बहुव्रीहिः । तेषां सन्नाशानाम् । दानस्य रसो दानरसः ' तत्पुरुषः । सह दानरसेन वर्तते यत् तत् सदानरसं ' बहुव्रीहिः । ॥ इति काव्याः ॥३॥
सि. वृ०-मवजलनिधीति । हे इत्यामन्त्रणे। हे अर्हन्नाथागम!-जिनेन्द्रसिद्धान्त! त्वं मतिः-प्रज्ञा विद्यते येषां ते मतिमन्तः तेषां मतिमतां जनानां सदा-सर्वदा ' सदानरसं ' दानम्-उत्सर्जनं तस्थ रसो-गणः तेन सह वर्तते यत् तत् तथा, “शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः" इत्यमरः (श्लो ०२७८९), वाद पद-स्थानकं तनु-विस्तारय देहीत्यर्थः । 'तनु विस्तारे' धातोः 'आशीःप्रेरणयोः' (सा०म० ७०३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org