________________
१२०
स्तुतिचतुर्विशतिका
[११ श्रीश्रेयांस
अथ समासः-जिनेषु वराः जिनवराः, जिनवराणां ततिः जिनवरततिः । जीवानां आली जीवाली, तासां जीवालीनाम् । न कारणं अकारणं, अकारणं वत्सला अकारणवत्सला। मदेन सहिताः समदाः, न समदाः असमदाः, असमदैर्महिता असमदमहिताः । न विद्यते मार:-कामा मरणं वा यस्याः सा अमारा। नसम.नः असमानः, असमानशासौ वरश्च असमानवरः। विष्टः-कथितः दत्तो वा असमानवरो यया सा विष्टासमानवरा । नास्ति अन्यः जयो यस्याः सा अजया । अमृतं भुञ्जन्तीति अमृतभुजः, नमन्तश्च ते अमृतभुजश्च नमदमृतभुजः, नमदमृतभुजां पंक्तिः नमदमृतभुपक्तिः, तथा नमदमृतभुरुपंक्त्या । न समः असमः, असमो वो येषां ते असमदमाः, असमदमैः असमदानां वा हिता असमदमहिता, तां असमदमहिताम् । मानवानां राजा मानवराजः, . मानवराजैः सहिता समानवराजा, तया समानवराजया। 'राजाहःसखिभ्यष्टच् ' (पा० अ०५, पा०४, सू२ ९१)। न जायते इति अजा, तया अजया । इति द्वितीयवृत्तार्थः ॥२॥
दे० व्या०-जिनवरततिरिति । जिनवरततिः-तीर्थङ्करणिः मम मति-बुझि आरात्-शीघ्रं यथा स्यात् तथा तनोतु-विस्तारयतु इत्यन्वयः। 'तनु विस्तारे ' धातुः । 'तनोतु' इति क्रियापदम् । का कर्जी ? | जिनव. रततिः । जिनधराणां ततिः जिनवरततिरिति विग्रहः । कां कर्मतापन्नाम् । मतिम् । कस्य ? । मम । किविशिष्टां नतिम् । 'असमदमहिताम्। मदेन-हर्षेण सह वर्तमानाः समदाः, न समदा असमदाः, तैः महिता-पूजिताम् ।
विशिष्टा जिनवरततिः।'अकारणवत्सला ' अकारणेन-प्रयोजनाभावेन वत्सला-सस्नेहा। कासाम् ।। जीवालीनाम् । जीवानां आल्यः तासां,प्राणिगणानामित्यर्थः। पुन: किंविशिष्टा?'असमदमहिता' अनन्यकल्पः दमः-इन्द्रियनियन्त्रणं येषां ते असमदमाः अर्थान्मुनयः तेषां हिता-हितकारिणी। पुनः किंविशिष्टा १ अमारा' नास्ति मार:-कन्दाँ यस्याः सा तथा । “ मदनो मन्मथो मारः" इत्यमरः (श्लो. ५९) । पुनः किंविशिष्टा ।'दिष्टासमानवरा' दिष्टः-प्रदत्तः असमान:-अनन्यकल्पो वरो यया सा तथा। पुनः किंविशिष्टा ? अजया-जेतुमशक्या। मिथ्यादृष्टिभिरित शेषः । यद्वा जयति अन्तरङ्गारिषड्वर्गामति जया । अकार विनैव छेदः । पुनः किविशिष्टा? | नूया-स्तुता । कया? । 'नमदमृयभुक्पक्त्या' नमन्तः-प्रण मन्तः ये अमृतभुजः-त्रिदिवेशाः तेषां पब्लिः-श्रेणिः तया। किंविशिष्टया नमदमृतभुक्पङ्काया?। 'समानवंराजया' मानवाना-मनुष्याणां राजानः-मानवराजाः 'राजाहः सखिभ्यष्टच्' (पा० अ० ५, पा० ४, सू० ९१) हाते टच प्रत्ययः। तैः सह वर्तमाना समानवराजा तया। 'सहादेः सादिः (सा० सु०५०६) इति सूत्रेण सकारोऽव. स्थितः। पुनः किंविशिष्टा ।इष्टा-वल्लभा। सर्वेषामिति शेषः॥ इति द्वितीयवृत्तार्थः॥२॥
जिनागमस्य स्तुतिः
भवजलनिधिभ्राम्यज्जन्तुबजायतपोत ! हे
तनु मातमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ३॥
- हरिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org