________________
जिमालया)
स्ततिचतुर्विशतिका नम६० कर्मधारयः' । तया नर्मद० । सह मदेन वर्तन्ते इति समदाः तत्पुरुषः।न समदा असमदाः 'तत्पुरुषः । असमदैर्महिता असमद० 'तत्पुरुषः' । तां असम० । मानबानां राजानो मानवराजाः 'तत्पुरुषः । सह मानवराजैवर्तते या सा समानरामा 'तरपुरुषः । तया समा० । इति काव्यार्थः ॥२॥
सि. १०-जिनवरततिरिति । निनानां जिनेषु वा वराः-प्रधानाः तेषां ततिः-पंक्तिः जिनवरततिः मम मति-प्रतिमा आरात्-शीघं तनोतु-विस्तारयतु इत्यर्थः । तनु विस्तारे' धातोः 'आशी:प्रेरणयोः' (सा० म०७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषेकवचनं तुप् । तनादेरुप् ' (सा० सू० ९९७), 'नृपः। (सा० सू० ९७९) इति गुणः । तथाच 'तनोतु' इति सिद्धम् । अत्र ' तनोतु ' इति क्रियापदम् । का की । निन्तरततिः । कां कर्मतापन्नाम् ? । मतिम् । कथम् ! | आरात् । "आराद् दूरसमीपयोः" इति विश्वः। कथंभूतां मतिम् ! । ' असमदमहितां ' सह मदेन-अभिमानेन वर्तन्ते इति समदा: 'तत्पुरुषः, न समदा असमदाः तैमरिता-पूजिता ताम् । कथंभता जिनवरततिः । अकारणवत्सला ' न विद्यते कारणं यत्र तद् अकारणम, अकारणम्-अनिमित्तं वत्सला-स्निग्या अकारणवत्सला । " स्निग्धस्तु वत्सलः" इत्यमरः (श्लो. २०१३)। कासाम् ! । ' जीवालीनां ' जीवानां-प्राणिनां आल्यः-श्रेणयः तासाम् । पुनः कथंभूता।। 'असमदमहिता' असमो-अनन्यसहशो दमो येषां ते असमदमाः तेषां हिता-हितकारिणीत्यर्थः । पुनः कथमना।। 'अमारा न विद्यते मार:-कन्दर्पो यस्याः सा अमारा। पुनः कथंभूता ! ।दिष्टासमानवरा' दिष्टा-इत्ता असमाना:असाधारणाः वरा:-प्रार्थिताथों यया सा, न समाना असमानाः असमानाश्च ते वराश्च असमाश्वराः इति 'कर्मधारयः । पुनः कथंभूता ।। 'अनया' न विद्यते जयः-- अभिभवः कुतश्चित् यस्याः सा तथा । यद्वा न जायते-नोत्पद्यते इत्यजा तया। यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया । अकारं विनैव छेदः। पुनः कार्यभूता ! । नता-स्तुता । कया? | 'नमदमृतभुकाङ्क्तया ' अमृतं भुञ्जन्तीत्यमृतभुजो-देवाः तेषां पंक्तिः अमृसमुक्तिः इति ' तत्पुरुषः । नमन्ती चासौ अमृतभुनां पंक्तिः नमदमृतभुक्पत्तिस्तया । कयंभूतया ।। 'समानवराजया' मानवानां राजानो मानवराजाः 'राजाह सखिभ्यष्टच' (पा०अ०५,पा०४,सू०९१) इतिटच् । मानवराजैः-नृपतिभिः सह-वर्तमाना सा तथा तया । पुनःकथंभूता जिनवरततिः? । इष्टा-पूजिता अभिमता वा ॥२॥
सौ० वृ०-जिनवरततिरिति । जिनवरततिः-तीर्थकरराजिः मम मति-बुद्धिं सदा-शव आराद शीघ्रं तनोतु इत्यन्वयः। तनोतु' इति क्रियापदम् । का की ? । 'जिनवरततिः'। 'तनोतु' विस्तारयतु । का कर्मतापन्नाम् ? । 'मतिम्' । कस्य ? । 'मम' । कथम् ? । 'सदा'। किंविशिष्टा जिनवरततिः । 'असमदमहिता' निरुपमशमजनहिता। दिष्टा-दत्ता असमाना-असाधारणा वरा:-प्रार्थितार्था यया सा 'दिष्टासमानवरा'। पुन: किंविशिष्टा जिनवरततिः? जीवानां-प्राणिनां आल्य:-श्रेणयः तासां अकारणं-निष्प्रयोजनं वत्सला-वात्सल्यवती 'जीवालीनामकारणवत्सला'। पुनः किं.? मारेण-मन्मथेन रहिता अमारा'। पुन: किंविशिष्टा जिनवरततिः?। अजया' सर्कपराजिता। पुनः किं जिनवरततिः?। 'नूता' स्तुता । कया? नमन्तः-प्रणमन्तो येऽमृतभुजो-देवाः तेषां सज्जनै: महितां-पूजिताम् असमदमहिताम्। पुन: किं० जिनवरततिः? । 'इष्टा' वल्लभा पूज्या वा। किंविशिष्टया नमदमृतभुक्पंक्त्या? । 'समानवराजया' भूपति(श्रेणि)सहितया। पुनः किं० नमदमृतभुक्पंक्त्या? । 'अजया' अगर्भोत्पन्नया, देवानां शय्योत्पत्तित्वात्। इति पदार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org