________________
११८ स्तुतिचताशतिका
[११ श्रीश्रेयांसजिमपराणां तल्लक्षणगर्मितस्तुतिः
जिनवरतति वालीनामकारणवत्सलाऽ
समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पतया नूता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया ॥२॥
-हरिणी ज० वि०–जिनवरततिरिति । जिनवरततिः-तीर्थकरपङिः मम मति-प्रतिभा आराभीघ्रं तनोतु-विस्तारयतु इति क्रियाकारकयोगः । अत्र 'तनोतु । इति क्रियापदम् । का की ? 'जिनवरततिः'का कर्मतापनाम् ? 'मतिम्' । कस्य ? 'मम' । कथम् ? ‘आरात्' । माति कर्षभूताम् ? ' असमदमहिताम् । असमदैः-मदरहितैः शान्तैरित्यर्थः, महिता-पूजिताम् । जिनवरततिः कथंभूता ? 'अकारणवत्सला' निष्कारणं स्निग्धा । कासाम् ? ' जीवालीनाम् ' जन्तुसन्ततीनाम् । पुनः कथं ? 'असमदमहिता' असमदमानां-निरुपमोपशमानां हिताहितकारिणी । पुनः कयं० ? 'अमारा' माररहिता । पुनः कथं ? 'दिष्टासमानवरा' दिष्टा-दचा असमाना-असाधारणा वरा:-प्रार्थितार्था यया सा तथा । पुनः कथं० १ 'अजया' न विद्यते जया-अभिभवः कुतश्चित् यस्याः सा तथा । पुनः कथंभूता? 'नूता' स्तुता । कया? 'नएदमृतभुपतया' नमन्ती या अमृतभुजा-देवानां पति:-श्रेणिः तया । तथा कयंभूतया ? 'समानबराजया' मानवराजैः-भूपतिभिः सह वर्तमानया । अजयेति जिमवरसत्तेविशेषणं व्याख्यातम् । तत्र नमदमृतभुपतेवों व्याख्यायते । तथाहि-कथंभूतया नमदमृतमुक्पत्तया? 'अजया' न जायत इत्यजा तया । तस्या उत्पातशय्यायामेवोत्पादात् । जन्मक्लेशरहितयेत्यर्थः। जिनवरततिः पुनः कथं ? ' इष्टा' पूजिता अभिमता वा ।।
अथ समासः-जिनानां जिनेषु वा वरा जिनवरा 'तत्पुरुषः' । जीवानां आल्यो जीवाल्यः तत्पुरुषः। तासां जीवा न विद्यते कारणं यत्र तत् अकारणं 'बहुव्रीहिः' । अकारणं वत्सला अकारणव 'वत्पुरुषः' । न समो असमः 'तत्पुरुषः । असपो दमो येषां ते असमदमाः 'बहुव्रीहिः ।। असमदमर्महिता असम० ' तत्पुरुषः । न विद्यते मारो यस्याः सा भमारा 'बहुव्रीहिः' । न समाना असमानाः 'तत्पुरुषः । असमानाश्च ते वराश्च अस० 'कर्मधारयः । दिष्टा असमानवरा यया सादिष्टास. बहुव्रीहिः । न विद्यते जयो यस्याः सा अजया 'बहुव्रीहिः। यद्वा न जायत इत्यजा 'तत्पुरुषः । तया अजया । अमृतं भुञ्जन्तीत्यमृतभुनः 'तत्पुरुषः ।। अमृतभुजा पङ्कि: अमृतभुपङ्किः तत्पुरुषः । नमन्ती चासावमृतभुपतिश्च
१० ताऽमाराऽऽदिष्टासमानवरा जगा"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org