________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
की ? । 'अबला' स्त्री। 'आहत' आक्षिप्तवती । कथम् ? । 'न' निषेधे। किं कर्मतापत्रम् ! । 'यन्मनः' यच्चित्तम् । किवि० अबला ?। 'दयिता , वल्लभाऽपि । पुनः किंवि० अबला ! । कमलसहशाली' सुकुमारत्वात् कमलकोमलदेहा। 'अयि' इति कोमलामन्त्रणे संबोधने वा । अलसदृशां-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयःयस्मात् कारणात्, यस्मात् जिनादू वा अन्य कं न मोहवशं व्यधुः? इत्यन्वयः । 'व्यधुः' इति क्रियापदम् । के कर्तारः ? । 'गीतारावाः' । ' व्यधुः ' अकार्षुः । के कर्मतापन्नम् ? । 'कं अन्यं ' जनम् । अन्यं कस्मात् ? । 'यस्मात् ' जिनात् । 'न' निषेधे काकूक्त्या । अपितु सर्वानपीत्यर्थः । किविशिष्टं अन्यम् । 'मोहवशं' रागपरवशम् । पुनः किंवि० ? । 'तापितं' पीडितम् । केन? । 'कुसुमधनुषा' स्मरेण । कथम् ? । 'बलात्' हठात् । किंवि० अबला? । 'तारा' उज्ज्वला, गौरवर्णेत्यर्थः । 'वा' समुच्चयार्थे । विरुद्धमेतत् । दयिता स्वभर्तृमनः कथं नाक्षिप्तवती परं प्रव्रज्याप्रतिपत्त्यनन्तरम् इदं ज्ञेयम् । इति पदार्थः ॥
अथ समासः--कुसुमान्येव धनुर्यस्य स कुसुमधनुः, तेन कुसुमधनुषा । मोहस्य वशः मोहवशः, तं मोहवशम् । अलसा शो यासां ताः अलसदृशः, तासां अलसदृशाम् । नृपक्षे तु पुंस्त्वपुरस्कारेण येषां ते वा । गीतस्य आरावा गीतारावाः । “संबोधनेऽङ्ग भोः प्याद पाद हे है हहो अरयिरे" इति हैमकोषः (का०६, श्लो०१७३)। अतिशयेन प्रणमत इति प्रणमततराम् । यस्य मनः यन्मनः, तत् यन्मनः । कमलवत् वा कमलानां सदृशं अङ्गं यस्याः सा कमलसदृशानी । हरिणीच्छन्दसा स्तुतिरियम् । इति प्रथमवृत्तार्थः ॥१॥
दे०व्या०-कुसुमधनुषेति । अयोति कोमलामन्त्रणे । अलसदृशां-मृगाक्षीणां गीतारावा:-गीतध्वनयो यस्मात् हेतोः अन्यं जनं इति शेषः, बलात्-हठात् मोहवशं-प्रेमवशवर्तिनं न व्यधुः-नाकार्षुः? अपितु सर्वमप्यकार्युः इत्यन्वयः। 'न व्यधुः' इति क्रियापदम् । के कर्तारः । गीतारावाः । कासाम् ।। शाम्' आलस्ययुक्ते, अद्घाटिते इतियावत् । दृशौ-अक्षिणी यासां ताः तासाम् । “अलसेक्षणा मृगाक्षी" इत्यभिधानचिन्तामणिः ( का०३, श्लो० १७०)। कं कर्मतापन्नम् । जनम् । किंविशिष्टं जनम् । तापितं-पीडितम् । केन ?'कुसुमधनुषा, कुसुममेव धनु:-कार्मुकं यस्य स कुसुमधन्वा-कन्दर्पः तेन । "पुष्पधन्वा रतिपतिः" इत्यमरः (श्लो० ५२), तत्-तस्मात् कारणात् तं श्रेयांसं-श्रेयांसनाथं दाक्-सूर्ण यथा स्थात् तथा यूयं प्रणमततराम्-अतिशयेन प्रणमतेति पूर्वेण सम्बन्धः। ‘णम प्रतीभावे ' धातुः। 'प्रणमत, इति क्रियापदम् । के कर्तारः ?। यूयम् । के कर्मतापन्नम् ? । श्रेयांसम् । यत्तदोर्नित्याभिसम्बन्धाद् यन्मनः-यस्य चित्तं अबला-सामान्यवनिता वाशब्दश्चकारार्थः, तेन दयिताऽपि स्वकीयवनिताऽपिच न आहृत-न क्षिप्तवती इत्यन्वयः । 'हृञ् हरणे' धातुः। किंविशिष्टा दयिता ? । 'कमलसदृशाङ्गी' कमलेन-पङ्कजेन सदृशं-तुल्यं कोमलत्वात् अङ्गं-शरीरं यस्याः सा तथा । एतेन यस्याः संस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवति इति मचितमा पुनः किंविशिष्टा। तारा-उज्ज्वला । गौरांगीतियावत् । एतेन “विकारहेती सति विक्रियन्ते. येषां न चेतांसि त एव धीराः" ( कुमारसम्भवे ) इत्यादिना विकारसामग्यां सत्यामपि विकरानुत्पातत्वेन अतिधीरत्वं ध्वन्यते । इति प्रथमवृत्तार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org