________________
स्तुतिचतुर्विशतिका
[ ११ श्रीश्रेयांस
,
सि० वृ० - कुसुमघनुषेति | भो भव्याः । यूयं तं श्रेयासं - श्रेयांसनामानं तीर्थङ्करं द्राक् - सपदि प्रणमततराम् - अतिशयेन प्रणमतंत्यर्थः । प्रपूर्वक 'णम प्रह्वीभावे' धातो: 'आशी: प्रेरणयो:' (सा०सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं त । 'आद: प्णः स्नः' (सा०सू० ७४८) इति नत्वं कृतेऽपि पुनर्ण: । अप्० (सा० सू० ६९१), ' स्वरहीनं ० ' ( सा० सू० ३६ ) । तथाच ' प्रणमत ' इति सिद्धम् । अत्र ‘प्रणमत' इति क्रियापदम् | के कर्तारः ? | यूयम् । के कर्मतापन्नम् ? । 'श्रेयांसं ' श्रेशंस अंसौ अस्य (स) श्रेयांसः पृषोदरादिः । विश्वस्यापि श्रेयान् -हितकर इति वा श्रेयांसः । गर्भस्थेऽस्मिन् केनाप्याक्रान्तपूर्वा देवताधिष्ठिता शय्या मात्रा आक्रान्ता श्रेयश्च जातं इति वा श्रेयांस तम् । कथम् ? | द्राक् । यत्तदोरभिसम्बन्धात् तं कम् ? | यस्मात् श्रेयांसाद् अन्यम् - अपरं जन के अलसदृशां - स्तिमितलोचनानां सरागदृशां या स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः बलात्-- हठात् मोहवशं - रागपरवशं न व्यधुः, न चक्रुः इत्यर्थः । 'डु घाञ् घारणपोषणयोः' इति धातोः विपूर्वस्य भूते सौ कर्तरि परस्मैपदे प्रथम पुरुषबहुवचनम् अनू । ' दिवादावट्' (सा० सू० ७०७ ), 'दादेः पे' (सा० सू० ७२५ ) इति सिलोपः । ‘स्यावेिदः' ( सा० सू० ७३८ ) इति अनः उस् । ' आतोऽनपि ' (सा० सू० ८०१ ) इत्याकारलोपः । ' इ यं स्वरे ' (सा० सू० ३३), 'स्त्रोर्विसर्गः' (सा० सू० १२४ ) । तथाच 'व्यधुः ' इति सिद्धम् । अत्र ' व्यधुः' इति क्रियापदम् । के कर्तारः ? । गीवारावाः । के कर्मतापन्नम् । कम् । कथंभूतं न व्यधुः ! | मोहवशम् । कस्मात् ! | बलात् । कथंभूतं सन्तम् ? । तापितं - दीपितं सन्तम् । केन ? कुसुमघनृपा कन्दर्पेण | गीतारावाः केषाम् । असहशाम् । अनेन विशेषणेन गानकारिणां समदचेष्टावत्वमाचष्टे । अत्रकमिति प्रश्ने, ततोऽयमर्थः - अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलान्मोहवशं न व्यधुः ? अपितु सर्वमपि व्यधुरेवेति । यदाह "विकारहेती सति विक्रियन्ते येषां न चेतांसि त एव धीराः " इति कुमारे कालिदासोक्तिः । अग्ला वा सुन्दरी । वाशब्दः समुच्चयार्थः । यन्मनः -यस्य चित्तं न चाहत - नाक्षिमवती न क्षोभयामासेति भावः । 'हृञ् हरणे' धातो: भूते सौ कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् । 'लोपो हस्वाज्झमें ' (सा० सू० ७१२१ ) इति सेर्लोपः । 'दिबादावट् ' (सा० सू० ७०७ ) । तथाच 'आहत' इति सिद्धम् । अत्र ' आहृत ' इति क्रियापदम् । का कर्त्री ? | अबला । किं कर्मतापन्नम् ! । यन्मनः । अबला कथंभूता ! | कमलसदृशाङ्गी ' कमलस्य - पङ्कमस्य सदृशं भङ्गं - शरीरं यस्याः सा तथा । एतेन यस्याः गात्रस्पर्शमात्रादेव कन्दर्पान्मज्जनं भवतीति सूचितम् । पुनः कथंभूता ? | वारा- उज्ज्वला ( दयिताऽपि ) १ ॥
/
1
११६
सौ० वृ० - यः शीतलो भवति स श्रेयःस्थानं भवति । अनेन संबन्धेनायातस्य एकादशश्रीश्रेयाँसजिनस्य (स्तुतेः ) व्याख्यानं लिख्यते
कुसुम धनुषेति । भो जनाः । तं श्रेयांसनामानं जिनं द्राक् शीघ्रं प्रणमततराम् इत्यन्वयः । ' प्रणमततराम्' इति क्रियापदम् । के कर्तारः ? । 'यूयम्' । 'प्रणमततराम्' अतिशयेन नमत । कं कर्मतापनम् १ । 'श्रेयांसम्' श्रेयांसनामानं जिनम् । कथम् ? । 'द्राक' शीघ्रम् । किंविशिष्टं श्रेयांसम् । 'तं' प्रसिद्धम् । तं कम ! । यन्मनः दयिता- वल्लभा अबलाऽपि न आहत इत्यन्वयः । आहत ' इति क्रियापदम् । का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org